Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 61

Sabhāparva Adhyāya 61

सभापर्व • अध्यायः 61

Sabhāparva Adhyāya 61 of the classical Mahābhārata with 83 verses.

Total: 83 Verses • Citations: MBh 2.61.1–83 • 250 Lexicon Terms • Page 3 of 3 (Verses 23 shown)
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा । तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् । ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् । तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि । शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् । जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च । ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ॥
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् । के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् । सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते । तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु । पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते । इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ॥
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् । ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ॥
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् । अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ॥
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः । तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् । तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् । श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ॥
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव । विरोचन सुधन्वायं प्राणानामीश्वरस्तव ॥
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः । अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः । यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥
विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः । कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ॥
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् । दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥
← Previous (Ch. 285) Full Table of Contents Next (Ch. 287) →