Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 189

Ādiparva Adhyāya 189

आदिपर्व • अध्यायः 189

Ādiparva Adhyāya 189 of the classical Mahābhārata with 50 verses.

Total: 50 Verses • Citations: MBh 1.189.1–50 • 250 Lexicon Terms • Page 2 of 2 (Verses 20 shown)
तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् । स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे संबभूवुर्धरण्याम् ॥
स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् । तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च । तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः संबभूव ॥
ये ते पूर्वं शक्ररूपा निरुद्धा;स्तस्यां दर्यां पर्वतस्योत्तरस्य । इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ॥
एवमेते पाण्डवाः संबभूवु;र्ये ते राजन्पूर्वमिन्द्रा बभूवुः । लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ॥
कथं हि स्त्री कर्मणोऽन्ते महीतला;त्समुत्तिष्ठेदन्यतो दैवयोगात् । यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च । दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥
ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः । चक्षुर्दिव्यं प्रददौ तान्स सर्वा;न्राजापश्यत्पूर्वदेहैर्यथावत् ॥
ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् । बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ॥
दिव्यैर्वस्त्रैररजोभिः सुवर्णै;र्माल्यैश्चाग्र्यैः शोभमानानतीव । साक्षात्त्र्यक्षान्वसवो वाथ दिव्या;नादित्यान्वा सर्वगुणोपपन्नान् । तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा;न्प्रीतो राजा द्रुपदो विस्मितश्च ॥
दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च । योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥
स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य । नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥
तोषयामास तपसा सा किलोग्रेण शंकरम् । तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा । पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः ॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत । एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा । तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते । देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे । सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥
सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा । सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥
← Previous (Ch. 188) Full Table of Contents Next (Ch. 190) →