Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 141

Ādiparva Adhyāya 141

आदिपर्व • अध्यायः 141

Ādiparva Adhyāya 141 of the classical Mahābhārata with 25 verses.

Total: 25 Verses • Citations: MBh 1.141.1–25 • 250 Lexicon Terms
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव । भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत् ॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि । विशेषतोऽनपकृते परेणापकृते सति ॥
न हीयं स्ववशा बाला कामयत्यद्य मामिह । चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा । भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च । कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस । मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥
समागच्छ मया सार्धमेकेनैको नराशन । अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् । कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् । पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि । द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥
निराबाधास्त्वयि हते मया राक्षसपांसन । वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥
गर्जितेन वृथा किं ते कत्थितेन च मानुष । कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् । ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् । एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि । हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः । अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः । वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह । तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः । भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः । मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा । राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः । मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः । सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥
← Previous (Ch. 140) Full Table of Contents Next (Ch. 142) →