Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 140

Ādiparva Adhyāya 140

आदिपर्व • अध्यायः 140

Ādiparva Adhyāya 140 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.140.1–22 • 250 Lexicon Terms
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसंघातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥
प्रबोधयैनान्संसुप्तान्मातरं च परंतप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथ वा सर्वराक्षसाः ॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसंकाशौ संहतं चाप्युरो मम ॥
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥
तथा संजल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥
तमापतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥
← Previous (Ch. 139) Full Table of Contents Next (Ch. 141) →