Skip to main content
Search
MBh
Mahābhārata • Parva 13 (Anuśāsanaparva) • Adhyāya 17

Anuśāsanaparva Adhyāya 17

अनुशासनपर्व • अध्यायः 17

Anuśāsanaparva Adhyāya 17 of the classical Mahābhārata with 172 verses.

Total: 172 Verses • Citations: MBh 13.17.1–172 • 250 Lexicon Terms • Page 1 of 6 (Verses 30 shown)
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ॥
English Translation
Vasudeva said Concentrating his mind, O Yudhishthira, the twiceborn Rishi Upamanyu, with hands joined together in respect, uttered this abstract of names beginning from the very commencement.
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसंभवैः । सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ॥
English Translation
Upamanyu said I shall worship that great Deity who is worthy of the adorations of all creatures, by uttering those names which are celebrated over all the worlds,-names some of which were uttered by the Grandfather Brahman, some by the Rishis, and some of which occur in the Vedas, and the auxiliary sciences.
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ॥
English Translation
Those names have been used by eminent persons. They are, again, true and fraught with success, and are capable of accomplishing all the objects of the utterer. They have been given to Mahadeva by Tandi whose soul was purified by Vedic learning and who invented those names with the help of his devotion.
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् । श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ॥
English Translation
With those names that have been uttered by many wellknown pious persons and by ascetics conversant with all the subjects I shall worship him who is the greatest, who is the first, who takes to heaven, who is ready to give benefits upon all creatures, and who is auspicious.
यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् । वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् । तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् । युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥
English Translation
And because you are devoted to him, I shall, therefore, recite those names before you. Mahadeva is Eternal Brahma. No one even one cndued with Yoga is able to describe, in even a hundred years, the glory and power of that great Deity in full. The beginning, middle or end of Mahadeva cannot be apprehended by the very gods.
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते । कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥
किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् । शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ॥
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः । यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ॥
अनादिनिधनस्याहं सर्वयोनेर्महात्मनः । नाम्नां कंचित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ॥
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः । शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ॥
दश नामसहस्राणि यान्याह प्रपितामहः । तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥
English Translation
These names that I shall recite are taken from the ten thousand names that the great Grandfather had uttered in days of yore, as clarified butter is extracted from curds.
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु । घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ॥
English Translation
As gold is the essence of rocky mountains, as honey is the essence of flowers, as Manda is the extract from clarified butter, so have these names been extracted from and represent the cream of those ten thousand names that were uttered by the Grandfather Brahman.
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् । प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना । शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥
English Translation
This abstract of names can remove every sin however heinous. It possesses the merit of the four Vedas. It should be understood with care, and be kept in the memory with concentrated soul.
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥
English Translation
It is fraught with auspiciousness. It brings on advancement. It destroys Rakshasas. It is a great purifier. It should be given only to him who his faith, to him who is devoted to the great Lord, to him who believes. It should never be communicated to him who has no faith, him who is an unbeliever, him who has not conquered his soul.
यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् । स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥
English Translation
That creature, O Krishna, who entertain malice towards the illustrious Mahadeva who is the original cause of everything, who is the Supreme Soul, and who is the great Lord, has surely to go to hell with all his ancestors before and all his children after him.
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् । इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ॥
English Translation
This abstract of names that I shall recite to you is regarded as Yoga meditation. This is regarded as Yoga. This is regarded as the highest object of meditation. This is what one should constantly recite. This is knowledge. This is the highest Mystery.
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् । निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ॥
English Translation
Brahman, the Grandfather of all the universe, having in days of yore, composed it, gave to it the foremost place among all excellent hymns.
तदाप्रभृति चैवायमीश्वरस्य महात्मनः । स्तवराजेति विख्यातो जगत्यमरपूजितः । ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ॥
English Translation
Since then, this hymn of the greatness and glory of the great Mahadeva, which is held in the highest reverence by all the gods, is known as the king of all hymns.
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् । स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ॥
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् । तेजसामपि यत्तेजस्तपसामपि यत्तपः ॥
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः । दान्तानामपि यो दान्तो धीमतामपि या च धीः ॥
देवानामपि यो देवो मुनीनामपि यो मुनिः । यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ॥
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि । योगिनामपि यो योगी कारणानां च कारणम् ॥
यतो लोकाः संभवन्ति न भवन्ति यतः पुनः । सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु । यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥
← Previous (Ch. 1697) Full Table of Contents Next (Ch. 1699) →