Skip to main content
Search
MBh
Mahābhārata • Parva 13 (Anuśāsanaparva) • Adhyāya 151

Anuśāsanaparva Adhyāya 151

अनुशासनपर्व • अध्यायः 151

Anuśāsanaparva Adhyāya 151 of the classical Mahābhārata with 52 verses.

Total: 52 Verses • Citations: MBh 13.151.1–52 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते । विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥
English Translation
Yudhishthira said What, indeed, is beneficial for a person in this world? What is that by doing which one may acquire happiness? By what may one be purged of all his sins? Indeed, what is that which destroys sins?
अयं दैवतवंशो वै ऋषिवंशसमन्वितः । द्विसंध्यं पठितः पुत्र कल्मषापहरः परः ॥
English Translation
Bhishma said O son, the following names of the celestials with those of the Rishis, if duly recited morning, noon, and evening, destroy all sins.
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः । अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥
English Translation
The master of all the celestials and Apsaras, resplendent with effulgence, adored of all creatures, inconceivable, indescribable, the life of all living beings, and unborn is the Grandfather Brahman, that Lord of the universe. His chaste wife is Savittri. Then comes that origin of the Vedas, the creator Vishnu, otherwise called Narayana of immeasurable power.
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती । वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा । विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह । वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः । षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा । नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः । देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा । विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च । धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा । शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥
नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः । वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती । सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥
गङ्गा महानदी चैव कपिला नर्मदा तथा । कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥
सरयूर्गण्डकी चैव लोहित्यश्च महानदः । ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा । दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा ॥
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च । तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् । सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥
हिरण्वती वितस्ता च तथैवेक्षुमती नदी । वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च । ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥
कौशिकी यमुना सीता तथा चर्मण्वती नदी । नदी भीमरथी चैव बाहुदा च महानदी । महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् । गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् । पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ॥
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः । विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः । शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः । पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः । दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा । पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः । स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् । सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ॥
English Translation
The man, who takes the names of these, becomes purged of all his sins. By singing their praises and pleasing them, one becomes freed from every fear.
← Previous (Ch. 1831) Full Table of Contents Next (Ch. 1833) →