Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 44

Śalyaparva Adhyāya 44

शल्यपर्व • अध्यायः 44

Śalyaparva Adhyāya 44 of the classical Mahābhārata with 111 verses.

Total: 111 Verses • Citations: MBh 9.44.1–111 • 250 Lexicon Terms • Page 4 of 4 (Verses 21 shown)
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे । शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥
चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा । दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ॥
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः । स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः । कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ॥
हस्तिनासाः कूर्मनासा वृकनासास्तथापरे । दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ॥
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे । वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः । पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ॥
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः । नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः । नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ॥
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः । हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ॥
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः । पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ॥
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः । श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे । कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥
चामरापीडकनिभाः श्वेतलोहितराजयः । नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु । शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ॥
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः । पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः । शूलासिहस्ताश्च तथा महाकाया महाबलाः ॥
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः । असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ॥
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः । महाबला महावेगा महापारिषदास्तथा ॥
English Translation
Some, huge-bodied and powerful combatants, were armed with lances and scimitars. Some were armed with maces and Bhushundis and some had spears on their hands. The powerful, noble and energetic and quick-coursing companions had various kinds of terrible weapons in their arins.
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः । घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ॥
English Translation
Beholding the investiture of Kartikeya, those mighty and energetic followers, taking delight in battle and wearing on their persons rows of tinkling bells, danced round him joyfully.
एते चान्ये च बहवो महापारिषदा नृप । उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ॥
English Translation
These and many other powerful companions, O king, came to the great and illustrious Kartikeya.
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः । व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ॥
English Translation
Some belonged to the celestial regions, some to the acrial and some to the Earth, All of them were gifted with speed of the wind. Commanded by the gods, those brave and powerful ones became the companions of Kartikeya.
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च । अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥
English Translation
Thousands and thousands, millions and millions, of such beings came there at the investiture of the great Kartikeya and stood encircling him."
← Previous (Ch. 1262) Full Table of Contents Next (Ch. 1264) →