Skip to main content
Search
MBh
Mahābhārata • Parva 11 (Strīparva) • Adhyāya 26

Strīparva Adhyāya 26

स्त्रीपर्व • अध्यायः 26

Strīparva Adhyāya 26 of the classical Mahābhārata with 45 verses.

Total: 45 Verses • Citations: MBh 11.26.1–45 • 250 Lexicon Terms • Page 2 of 2 (Verses 15 shown)
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् । दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥
दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् । शल्यं शलं च राजानं भूरिश्रवसमेव च ॥
जयद्रथं च राजानमभिमन्युं च भारत । दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥
बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् । राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् । युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् । अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् । केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च । अलम्बुसं च राजानं जलसंधं च पार्थिवम् ॥
अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः । घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ॥
पितृमेधाश्च केषांचिदवर्तन्त महात्मनाम् । सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ॥
English Translation
The Pitri-medha rites in honor of some of the great persons who were dead were performed there, while some sang Samans, and some cried for the dead.
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः । कश्मलं सर्वभूतानां निशायां समपद्यत ॥
English Translation
With the loud sound of Samans and Richs, and the cries of the women, all creatures became stupefied that night.
ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः । नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥
English Translation
The funeral fires, smokeless and burning brightly looked like shining planets in the sky enveloped by clouds.
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः । तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ॥
English Translation
Those among the dead that had hailed from various kingdoms and had no friends, were collected together in thousands of heaps and, at the command of Yudhishthira, were caused to be burnt by Vidura with the help a large number of persons acting coolly out of goodwill and affection, on pyres made of dry wood.
चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः । दाहयामास विदुरो धर्मराजस्य शासनात् ॥
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः । धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥
English Translation
Having performed their last rites, the Kuru king Yudhishthira, placing Dhritarashtra at his head, proceeded towards the river Ganga.
← Previous (Ch. 1326) Full Table of Contents Next (Ch. 1328) →