Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 221

Ādiparva Adhyāya 221

आदिपर्व • अध्यायः 221

Ādiparva Adhyāya 221 of the classical Mahābhārata with 22 verses.

Total: 22 Verses • Citations: MBh 1.221.1–22 • 250 Lexicon Terms
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः । व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी । जरिता दुःखसंतप्ता विललाप नरेश्वर ॥
अयमग्निर्दहन्कक्षमित आयाति भीषणः । जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः । अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् । त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम । आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे । कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् । चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन । छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् । सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः ॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः । इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् । एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् । अस्मासु हि विनष्टेषु भवितारः सुतास्तव । त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः ॥
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः । तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः । न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः । तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः । एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम् । रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् । पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् । कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् । अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥
गर्हितं मरणं नः स्यादाखुना खादता बिले । शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥
← Previous (Ch. 220) Full Table of Contents Next (Ch. 222) →