Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 220

Ādiparva Adhyāya 220

आदिपर्व • अध्यायः 220

Ādiparva Adhyāya 220 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 1.220.1–33 • 250 Lexicon Terms
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ॥
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च । कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ॥
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् । कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः । आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् । स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत । जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि । पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥
किमर्थमावृता लोका ममैते तपसार्जिताः । किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् । फलमेतस्य तपसः कथयध्वं दिवौकसः ॥
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु । क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः । तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥
त इमे प्रसवस्यार्थे तव लोकाः समावृताः । प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने । तस्मादपत्यसंताने यतस्व द्विजसत्तम ॥
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् । क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् । शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः । तानपास्य स तत्रैव जगाम लपितां प्रति । बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥
तस्मिन्गते महाभागे लपितां प्रति भारत । अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने । नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप । बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा ॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः । मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥
तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् । सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् । पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् । त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः । त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः । त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् । गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः । दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते । तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् । त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ॥
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः । त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः । तुतोष तस्य नृपते मुनेरमिततेजसः । उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् । प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः । खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥
← Previous (Ch. 219) Full Table of Contents Next (Ch. 221) →