Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 219

Ādiparva Adhyāya 219

आदिपर्व • अध्यायः 219

Ādiparva Adhyāya 219 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 1.219.1–41 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
तथा शैलनिपातेन भीषिताः खाण्डवालयाः । दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः । द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा । समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ । उत्पातनादशब्देन संत्रासित इवाभवन् ॥
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः । तेन ता जातयः क्षुद्राः सदानवनिशाचराः । निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः । वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः ॥
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः । निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः । हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत । बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥
समेतानां च देवानां दानवानां च सर्वशः । विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः । नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥
शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान् । बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी । शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ । वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि । भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि । अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥
पूजनीयतमावेतावपि सर्वैः सुरासुरैः । सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव । दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः । कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ॥
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः । त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु । वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ । निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् । व्यधमच्छरसंपातैः प्राणिनः खाण्डवालयान् ॥
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः । संछिद्यमानमिषुभिरस्यता सव्यसाचिना ॥
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् । निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥
शतेनैकं च विव्याध शतं चैकेन पत्रिणा । व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥
न चालभन्त ते शर्म रोधःसु विषमेषु च । पितृदेवनिवासेषु संतापश्चाप्यजायत ॥
भूतसंघसहस्राश्च दीनाश्चक्रुर्महास्वनम् । रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः । तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् । निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥
← Previous (Ch. 218) Full Table of Contents Next (Ch. 220) →