Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 222

Ādiparva Adhyāya 222

आदिपर्व • अध्यायः 222

Ādiparva Adhyāya 222 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 1.222.1–19 • 250 Lexicon Terms
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् । क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन । अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् । मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ॥
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते । चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् । संचरन्तं समादाय जहाराखुं बिलाद्बली ॥
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् । आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि । भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा । तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् । श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥
न विद्म वै वयं मातर्हृतमाखुमितः पुरा । अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् । अत एव भयं नास्ति क्रियतां वचनं मम ॥
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् । समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् । पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥
तरुणी दर्शनीयासि समर्था भर्तुरेषणे । अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् । अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे । जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः । यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा । जरितारिस्ततो वाचं श्रावयामास पावकम् ॥
← Previous (Ch. 221) Full Table of Contents Next (Ch. 223) →