Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 223

Ādiparva Adhyāya 223

आदिपर्व • अध्यायः 223

Ādiparva Adhyāya 223 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 1.223.1–26 • 250 Lexicon Terms
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः । स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् ॥
यस्तु कृच्छ्रमसंप्राप्तं विचेता नावबुध्यते । स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन ॥
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः । शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः । ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् । सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥
आत्मासि वायोः पवनः शरीरमुत वीरुधाम् । योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः । अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो । न नस्त्राता विद्यतेऽग्ने त्वदन्य;स्तस्माद्धि नः परिरक्षैकवीर ॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः । तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव । ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ॥
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् । त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः । मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः । सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते । नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च । विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् । शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन । परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा । द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया । ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः । वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् । उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते । भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः । एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् । ददाह खाण्डवं चैव समिद्धो जनमेजय ॥
← Previous (Ch. 222) Full Table of Contents Next (Ch. 224) →