Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 118

Ādiparva Adhyāya 118

आदिपर्व • अध्यायः 118

Ādiparva Adhyāya 118 of the classical Mahābhārata with 31 verses.

Total: 31 Verses • Citations: MBh 1.118.1–31 • 250 Lexicon Terms
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः ॥
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥
नृसिंहं नरयुक्तेन परमालंकृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलंचक्रिरे ततः ॥
रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम् ॥
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् । पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः । शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम् ॥
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥
तथा भीष्मः शांतनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥
← Previous (Ch. 117) Full Table of Contents Next (Ch. 119) →