Skip to main content
Search
KA
Kirātārjunīyam • Chapter 02

Canto 2

द्वितीयः सर्गः

Canto 2 of Kirātārjunīyam.

Total: 59 Verses • Citations: KA 2.1–59 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KA 2.1 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥
KA 2.2 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥
KA 2.3 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥
KA 2.4 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥
KA 2.5 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥
KA 2.6 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता । कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥
KA 2.7 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् । अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥
KA 2.8 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥
KA 2.9 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥
KA 2.10 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया । अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥
KA 2.11 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥
KA 2.12 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥
KA 2.13 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः । विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥
KA 2.14 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥
KA 2.15 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥
KA 2.16 गीति (१२, १८, १२, १८)
अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना । धृतराष्ट्रसुतेन सुत्यज्याश्चिरमास्वाद्य नरेन्द्रसम्पदः ॥
KA 2.17 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् । जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥
KA 2.18 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः । लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः ॥
KA 2.19 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥
KA 2.20 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः । अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥
KA 2.21 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
किमवेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥
KA 2.22 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥
KA 2.23 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः । प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ॥
KA 2.24 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि । विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥
KA 2.25 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टमिवोपचक्रमे ॥
KA 2.26 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अपवर्जितविप्लवे शुचय्हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥
KA 2.27 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥
KA 2.28 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः । इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥
KA 2.29 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥
KA 2.30 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →