Skip to main content
Search
KA
Kirātārjunīyam • Chapter 02

Canto 2

द्वितीयः सर्गः

Canto 2 of Kirātārjunīyam.

Total: 59 Verses • Citations: KA 2.1–59 • 1 Lexicon Terms • Page 2 of 2 (Verses 29 shown)
KA 2.31 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा । स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥
KA 2.32 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥
KA 2.33 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥
KA 2.34 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः । विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥
KA 2.35 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥
KA 2.36 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥
KA 2.37 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः । क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥
KA 2.38 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥
KA 2.39 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥
KA 2.40 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः । क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥
श्रुतमप्यधिगम्य ये रिपून्विनयन्ते स्म न शरीरजन्मनः । जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥
KA 2.42 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी । जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥
KA 2.43 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥
KA 2.44 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
प्रणतिप्रवणान्विहाय नः सहजस्नेहनिबद्धचेतसः । प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥
KA 2.45 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये । विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये ॥
KA 2.46 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अभियोग इमान्महीभुजो भवता तस्य ततः कृतावधेः । प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ॥
KA 2.47 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः । सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥
KA 2.48 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
असमापितकृत्यसम्पदां हतवेगं विनयेन तावता । प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ॥
KA 2.49 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता । अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ॥
KA 2.50 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥
KA 2.51 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृतिप्रकोपजः । अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥
KA 2.52 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ॥
KA 2.53 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् । अभिभूय हरत्यनन्तरः शिथिलं कूलमिवापगारयः ॥
KA 2.54 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् । स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ॥
KA 2.55 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥
KA 2.56 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् । ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ॥
KA 2.57 उपजातिः
अथोच्चकैरासनतः परार्ध्यादुद्यन्स धूतारुणवल्कलाग्रः । रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥
अवहितहृदयो विधाय स अर्हाम् ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ॥
KA 2.59 वसन्ततिलका
व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः । तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →