Skip to main content
Search
KA
Kirātārjunīyam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Kirātārjunīyam.

Total: 46 Verses • Citations: KA 1.1–46 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KA 1.1 वंशस्थम्
श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥
KA 1.2 वंशस्थम्
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥
KA 1.3 वंशस्थम्
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमादधे ॥
KA 1.4 वंशस्थम्
क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥
KA 1.5 वंशस्थम्
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥
KA 1.6 वंशस्थम्
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमबोधि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥
KA 1.7 वंशस्थम्
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥
KA 1.8 वंशस्थम्
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन्भूतिमनार्यसंगमाद्वरं विरोधोऽपि समं महात्मभिः ॥
KA 1.9 वंशस्थम्
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तंदिनमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥
KA 1.10 वंशस्थम्
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥
KA 1.11 वंशस्थम्
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥
KA 1.12 वंशस्थम्
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥
KA 1.13 वंशस्थम्
वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥
KA 1.14 वंशस्थम्
विधाय रक्षान्परितः परेतरानशङ्किताकारमुपैति शङ्कितः । क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥
KA 1.15 वंशस्थम्
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाम् । फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसम्पदः ॥
KA 1.16 वंशस्थम्
अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् । नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥
KA 1.17 वंशस्थम्
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवश्चकासति ॥
KA 1.18 वंशस्थम्
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥
KA 1.19 वंशस्थम्
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥
KA 1.20 वंशस्थम्
महीभुजां सच्चरितैश्चरैः क्रियाः स वेद निःशेसमशेषितक्रियः । महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥
KA 1.21 वंशस्थम्
न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥
KA 1.22 वंशस्थम्
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः । मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥
KA 1.23 वंशस्थम्
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥
KA 1.24 वंशस्थम्
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥
KA 1.25 वंशस्थम्
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥
KA 1.26 वंशस्थम्
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥
KA 1.27 वंशस्थम्
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा । नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥
KA 1.28 वंशस्थम्
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥
KA 1.29 वंशस्थम्
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥
KA 1.30 वंशस्थम्
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥
Full Table of Contents Next (Ch. 2) →