Skip to main content
Search
KA
Kirātārjunīyam • Chapter 01

Canto 1

प्रथमः सर्गः

Canto 1 of Kirātārjunīyam.

Total: 46 Verses • Citations: KA 1.1–46 • 1 Lexicon Terms • Page 2 of 2 (Verses 16 shown)
KA 1.31 वंशस्थम्
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥
KA 1.32 वंशस्थम्
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥
KA 1.33 वंशस्थम्
अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥
KA 1.34 वंशस्थम्
परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति ते कच्चिदयं वृकोदरः ॥
KA 1.35 वंशस्थम्
विजित्य यः प्राज्यमयच्छदुत्तरान्कुरूनकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन्करोति मन्युं न कथं धनंजयः ॥
KA 1.36 वंशस्थम्
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ । कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥
KA 1.37 वंशस्थम्
इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥
KA 1.38 वंशस्थम्
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥
KA 1.39 वंशस्थम्
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥
KA 1.40 वंशस्थम्
अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः । निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥
KA 1.41 वंशस्थम्
द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः । परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥
KA 1.42 वंशस्थम्
विहाय शान्तिं नृप धाम तत्पुनः प्रसीद संधेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥
KA 1.43 वंशस्थम्
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् । भवादृशाश्चेदधिकुर्वते परान्निराश्रया हन्त हता मनस्विता ॥
KA 1.44 वंशस्थम्
अथ क्षमामेव निरस्तसाधनश्चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥
KA 1.45 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥
KA 1.46 मालिनी
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलबलमगाधे मग्नमापत्पयोधौ । रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥
Full Table of Contents Next (Ch. 2) →