Skip to main content
Search
KA
Kirātārjunīyam • Chapter 17

Canto 17

सप्तदशः सर्गः

Canto 17 of Kirātārjunīyam.

Total: 64 Verses • Citations: KA 17.1–64 • 1 Lexicon Terms • Page 3 of 3 (Verses 4 shown)
KA 17.61 प्रहर्षिणी
नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानामधिपतिना शिलाविताने । उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥
KA 17.62 प्रहर्षिणी
निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर्नगैस्तैरातेने बलिमिव रङ्गदेवताभ्यः ॥
KA 17.63 प्रहर्षिणी
उन्मज्जन्मकर इवामारापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥
KA 17.64 मालिनी
अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगममरिसैन्यैरङ्कमभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः ॥
← Previous (Ch. 16) Full Table of Contents Next (Ch. 18) →