Skip to main content
Search
KA
Kirātārjunīyam • Chapter 16

Canto 16

षोडशः सर्गः

Canto 16 of Kirātārjunīyam.

Total: 64 Verses • Citations: KA 16.1–64 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
KA 16.1 उपजातिः
ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः । स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ॥
KA 16.2 उपजातिः
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥
KA 16.3 उपेन्द्रवज्रा
विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥
KA 16.4 उपजातिः
समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति । विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥
KA 16.5 उपेन्द्रवज्रा
हताहतेत्युद्धतभीष्मघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् । न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥
KA 16.6 उपजातिः
अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य । रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥
KA 16.7 उपजातिः
भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । नास्त्यत्र तेजस्विभिरुत्सुकानामह्नि प्रदोषः सुरसुन्दरीणाम् ॥
KA 16.8 उपजातिः
रथाङ्गसंक्रीडितमश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । संघर्षयोगादिव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥
KA 16.9 उपजातिः
अस्मिन्यशःपौरुषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम् । मूर्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिशीकराम्भः ॥
KA 16.10 उपजातिः
असृङ्नदीनामुपचीयमानैर्विदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायमायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ॥
KA 16.11 उपजातिः
परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥
KA 16.12 उपजातिः
निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितमभ्युदेति न खण्डमाखण्डलकार्मुकस्य ॥
KA 16.13 उपजातिः
महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन । नावर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥
KA 16.14 उपजातिः
महारथानां प्रतिदन्त्यनीकमधिस्यदस्यन्दनमुत्थितानाम् । आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ॥
KA 16.15 उपेन्द्रवज्रा
धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः । न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलमातनोति ॥
KA 16.16 इन्द्रवज्रा
उज्झत्सु संहार इवास्तसंख्यमह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननमत्र मृत्युः ॥
KA 16.17 उपजातिः
इयं च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् । शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥
KA 16.18 उपजातिः
माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥
KA 16.19 उपजातिः
पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः । नूनं तथा नैषा यथास्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥
KA 16.20 उपजातिः
धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी । संधानमुत्कर्षमिव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ॥
KA 16.21 उपजातिः
अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः । धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥
KA 16.22 उपजातिः
प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः । स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ॥
KA 16.23 उपजातिः
परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे । भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥
KA 16.24 उपजातिः
अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् । अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥
KA 16.25 उपजातिः
स सम्प्रधार्यैवमहार्यसारः सारं विनेष्यन्सगणस्य शत्रोः । प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥
KA 16.26 उपजातिः
प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः । महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥
KA 16.27 उपजातिः
आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती । सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥
KA 16.28 उपजातिः
गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन । केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥
KA 16.29 उपेन्द्रवज्रा
कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥
KA 16.30 उपजातिः
अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् । मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥
← Previous (Ch. 15) Full Table of Contents Next (Ch. 17) →