Skip to main content
Search
KA
Kirātārjunīyam • Chapter 16

Canto 16

षोडशः सर्गः

Canto 16 of Kirātārjunīyam.

Total: 64 Verses • Citations: KA 16.1–64 • 1 Lexicon Terms • Page 3 of 3 (Verses 4 shown)
KA 16.61 वंशस्थम्
उपैत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् । तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥
KA 16.62 मालिनी
अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानाम् । विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥
KA 16.63 मालिनी
इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम् । विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥
KA 16.64 वसन्ततिलका
वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥
← Previous (Ch. 15) Full Table of Contents Next (Ch. 17) →