Skip to main content
Search
KA
Kirātārjunīyam • Chapter 18

Canto 18

अष्टादशः सर्गः

Canto 18 of Kirātārjunīyam.

Total: 48 Verses • Citations: KA 18.1–48 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KA 18.1 द्रुतविलम्बितम्
तत उदग्र इव द्विरदे मुनौ रणमुपेयुषि भीमभुजायुधे । धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैरिव मुष्टिभिः ॥
KA 18.2 द्रुतविलम्बितम्
हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः । स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥
KA 18.3 द्रुतविलम्बितम्
शिवभुजाहतिभिन्नपृथुक्षतीः सुखमिवानुबभूव कपिध्वजः । क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमः ॥
KA 18.4 द्रुतविलम्बितम्
व्रणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरः । अभिनवौषसरागभृता बभौ जलधरेण समानमुमापतिः ॥
KA 18.5 द्रुतविलम्बितम्
उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः । भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥
KA 18.6 द्रुतविलम्बितम्
निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः । त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ॥
KA 18.7 द्रुतविलम्बितम्
अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥
KA 18.8 द्रुतविलम्बितम्
प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः । करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥
KA 18.9 द्रुतविलम्बितम्
अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥
KA 18.10 द्रुतविलम्बितम्
प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतौ । वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥
KA 18.11 द्रुतविलम्बितम्
करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः । चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥
KA 18.12 द्रुतविलम्बितम्
वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोश्चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुराम् ॥
KA 18.13 रथोद्धता
विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥
KA 18.14 प्रमिताक्षरा
तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया । गुणसंहतेः समतिरिक्तमहो निजमेव सत्त्वमुपकारि सताम् ॥
KA 18.15 अपरवक्त्र = [११: ननरलग] १,३ + [१२: नजजर] २,४
अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया । स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥
KA 18.16 प्रमुदितवदना
सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम् ॥
KA 18.17 प्रमुदितवदना
सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः । विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥
KA 18.18 इन्द्रवज्रा
आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य । रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ॥
KA 18.19 इन्द्रवज्रा
हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणैर्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥
KA 18.20 प्रमुदितवदना
मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥
KA 18.21 प्रमुदितवदना
कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥
KA 18.22 प्रमिताक्षरा
शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः । जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥
KA 18.23 प्रमिताक्षरा
विपदेति तावदवसादकरी न च कामसम्पदभिकामयते । न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश न नतिः क्रियते ॥
KA 18.24 शालिनी
संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥
KA 18.25 स्वागता
प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय । तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस्तत् ॥
KA 18.26 प्रमुदितवदना
व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतमतिरेति घोरां गतिम् । इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥
KA 18.27 स्वागता
दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीमविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥
KA 18.28 मत्तमयूरम्
दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः । सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ति साधु विधेयं स विधत्ते ॥
KA 18.29 उपजातिः
युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः । समुच्छिनत्सि त्वमचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥
KA 18.30 स्वागता
संनिबद्धमपहर्तुमहार्यं भूरि दुर्गतिभयं भुवनानाम् । अद्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय मायाम् ॥
← Previous (Ch. 17) Full Table of Contents