Skip to main content
Search
KA
Kirātārjunīyam • Chapter 12

Canto 12

द्वादशः सर्गः

Canto 12 of Kirātārjunīyam.

Total: 54 Verses • Citations: KA 12.1–54 • 1 Lexicon Terms • Page 2 of 2 (Verses 24 shown)
KA 12.31 उपजातिः
किमुपेक्षसे कथय नाथ न तव विदितं न किंचन । त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥
KA 12.32 उद्गीति (१२, १५, १२, १८)
इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः ॥
KA 12.33 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
बदरीतपोवननिवासनिरतमवगात मान्यथा । धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥
KA 12.34 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः । क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ॥
KA 12.35 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः । पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥
KA 12.36 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः । हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥
KA 12.37 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
विवरेऽपि नैनमनिगूढमभिभवितुमेष पारयन् । पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥
KA 12.38 उद्गीति (१२, १५, १२, १८)
निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति ॥
KA 12.39 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
तपसा निपीडितकृशस्य विरहितसहायसम्पदः । सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥
KA 12.40 उद्गीति (१२, १५, १२, १८)
इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥
वदनेन पुष्पितलतान्तनियमितविलम्बितमौलिना । बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥
KA 12.42 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥
KA 12.43 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः । शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥
KA 12.44 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
विरचय्य काननविभागमनुगिरमथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥
KA 12.45 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥
KA 12.46 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः । घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥
KA 12.47 उपजातिः
चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथुप्रियबालवालधिभिराददे धृतिः ॥
KA 12.48 आर्या (१२, १८, १२, १५)
हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः । स्वस्थमभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ॥
KA 12.49 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
बिभरांबभूवुरपवृत्तजठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥
KA 12.50 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
महिषक्षतागुरुतमालनलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमम् ॥
KA 12.51 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ॥
KA 12.52 उपजातिः
इति चालयन्नचलसानुवनगहनजानुमापतिः । प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥
KA 12.53 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः । पित्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥
KA 12.54 प्रहर्षिणी
कच्छान्ते सुरसरितो निधाय सेनामन्वतिः सकतिपयैः किरातवर्यैः । प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य सम्प्रतस्थे ॥
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →