Skip to main content
Search
KA
Kirātārjunīyam • Chapter 11

Canto 11

एकादशः सर्गः

Canto 11 of Kirātārjunīyam.

Total: 81 Verses • Citations: KA 11.1–81 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
KA 11.1 अनुष्टुप्
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया । आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥
KA 11.2 अनुष्टुप्
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥
KA 11.3 अनुष्टुप्
जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥
KA 11.4 अनुष्टुप्
विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः । प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः ॥
KA 11.5 अनुष्टुप्
आसक्तभरनीकाशैरङ्गैः परिकृशैरपि । अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥
KA 11.6 अनुष्टुप्
गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना । अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ॥
KA 11.7 अनुष्टुप्
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रयम् ॥
KA 11.8 अनुष्टुप्
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥
KA 11.9 अनुष्टुप्
आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥
KA 11.10 अनुष्टुप्
त्वया साधु समारम्भि नवे वयसि यत्तपः । ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥
KA 11.11 अनुष्टुप्
श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥
KA 11.12 अनुष्टुप्
शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥
KA 11.13 अनुष्टुप्
अन्तकः पर्यवस्थाता जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ॥
KA 11.14 अनुष्टुप्
चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता । विरुद्धः केवलं वेषः संदेहयति मे मनः ॥
KA 11.15 अनुष्टुप्
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥
KA 11.16 अनुष्टुप्
प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥
KA 11.17 अनुष्टुप्
भयंकरः प्राणभृतां मृत्योर्भुज इवापरः । असिस्तव तपस्थस्य न समर्थयते शमम् ॥
KA 11.18 अनुष्टुप्
जयमत्रभवान्नूनमरातिष्वभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥
KA 11.19 अनुष्टुप्
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥
KA 11.20 अनुष्टुप्
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥
KA 11.21 अनुष्टुप्
अभिद्रोहेण भूतानामर्जयन्गत्वरीः श्रियः । उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥
KA 11.22 अनुष्टुप्
या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥
KA 11.23 अनुष्टुप्
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः । भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥
KA 11.24 अनुष्टुप्
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥
KA 11.25 अनुष्टुप्
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥
KA 11.26 अनुष्टुप्
कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥
KA 11.27 अनुष्टुप्
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥
KA 11.28 अनुष्टुप्
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥
KA 11.29 अनुष्टुप्
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥
KA 11.30 अनुष्टुप्
जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →