Skip to main content
Search
KA
Kirātārjunīyam • Chapter 12

Canto 12

द्वादशः सर्गः

Canto 12 of Kirātārjunīyam.

Total: 54 Verses • Citations: KA 12.1–54 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KA 12.1 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥
KA 12.2 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥
KA 12.3 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः । व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥
KA 12.4 उद्गीति (१२, १५, १२, १८)
न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥
KA 12.5 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे । सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥
KA 12.6 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् । त्रासजननमपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥
KA 12.7 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
ज्वलतोऽनलादनुनिशीथमधिकरुचिरम्भसां निधेः । धैर्यगुणमवजयन्विजयी ददृशे समुन्नततरः स शैलतः ॥
KA 12.8 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
जपतः सदा जपमुपांशु वदनमभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥
KA 12.9 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः । शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥
KA 12.10 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ॥
KA 12.11 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥
KA 12.12 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः । भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥
KA 12.13 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ॥
KA 12.14 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः । रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥
KA 12.15 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः । तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥
KA 12.16 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥
KA 12.17 उपजातिः
विनयं गुणा इव विवेकमपनयभिदं नया इव । न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥
KA 12.18 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
परिवीतमंशुभिरुदस्तदिनकरमयूखमण्डलैः । शम्भुमुपहतदृशः सहसा न च ते निचायितुमभिप्रसेहिरे ॥
KA 12.19 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अथ भूतभव्यभवदीशमभिमुखयितुं कृतस्तवाः । तत्र महसि ददृशुः पुरुषं कमनीयविग्रहमयुग्मलोचनम् ॥
KA 12.20 उद्गीति (१२, १५, १२, १८)
ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि । स्पर्शसुखमनुभवन्तमुमाकुचयुग्ममण्डल इवार्द्रचन्दने ॥
KA 12.21 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
स्थितमुन्नते तुहिनशैलशिरसि भुवनातिवर्तिना । साद्रिजलधिजलवाहपथं सदिगश्नुवानमिव विश्वमोजसा ॥
KA 12.22 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अनुजानुमध्यमवसक्तविततवपुषा महाहिना । लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् ॥
KA 12.23 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
परिणाहिना तुहिनराशिविशदमुपवीतसूत्रताम् । नीतमुरगमनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥
KA 12.24 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
प्लुतमालतीसितकपालकमुदमुपरुद्धमूर्धजम् । शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥
KA 12.25 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः । पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥
KA 12.26 उपजातिः
तरसैव कोऽपि भुवनैकपुरुष पुरुषस्तपस्यति । ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥
KA 12.27 उपजातिः
स धनुर्महेषुधि निभर्ति कवचमसितमुत्तमं जटाः । वल्कमजिनमिति चित्रमिदं मुनिताविरोधि न च नास्य राजते ॥
KA 12.28 उद्गीति (१२, १५, १२, १८)
चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भमनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥
KA 12.29 उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
स तदोजसा विजितसारममरदितिजोपसंहितम् । विश्वमिदमपिदधाति पुरा किमिवास्ति यन्न तपसामदुष्करम् ॥
KA 12.30 उपजातिः
विजिगीषते यदि जगन्ति युगपदथ संजिहीर्षति । प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुं क्षमा रुचः ॥
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →