Skip to main content
Search
KA
Kirātārjunīyam • Chapter 13

Canto 13

त्रयोदशः सर्गः

Canto 13 of Kirātārjunīyam.

Total: 71 Verses • Citations: KA 13.1–71 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
KA 13.1 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
वपुषां परमेण भूधराणामथ सम्भाव्यपराक्रमं विभेदे । मृगमाशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥
KA 13.2 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः । जयमिच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कम् ॥
KA 13.3 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः । अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥
KA 13.4 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
इह वीतभयास्तपोनुभावाज्जहति व्यालमृगाः परेषु वृत्तिम् । मयि तां सुतरामयं विधत्ते विकृतिः किं नु भवेदियं नु माया ॥
KA 13.5 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अथवैष कृतज्ञयेव पूर्वं भृशमासेवितया रुषा न मुक्तः । अवधूय विरोधिनीः किमारान्मृगजातीरभियाति मां जवेन ॥
KA 13.6 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे । विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ॥
KA 13.7 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः । परवृद्धिषु बद्धमत्सराणां किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥
KA 13.8 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बदस्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥
KA 13.9 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे । पृथुभिर्ध्वजिनीस्रवैरकार्षीच्चकितोद्भ्रान्तमृगाणि काननानि ॥
KA 13.10 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद्गणमाशिश्रियदाकुलं तिरश्चाम् ॥
KA 13.11 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥
KA 13.12 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥
कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । बलिनश्च वधाद् ऋतेऽस्य शक्यं व्रसंरक्षणमन्यथा न कर्तुम् ॥
KA 13.14 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥
KA 13.15 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन । स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥
KA 13.16 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥
KA 13.17 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः । रचितस्तिसृणां पुरां विधातुं वधमात्मेव भयानकः परेषाम् ॥
KA 13.18 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शम्भुः ॥
KA 13.19 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् । रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ॥
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः । निपपात जवादिषु पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥
KA 13.21 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः । प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥
KA 13.22 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गैः । विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥
KA 13.23 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अपयन्धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिख्यया जिहानः । युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥
KA 13.24 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः । भयविप्लुतमीक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥
KA 13.25 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खमाससाद । कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन्प्राणभृतः कपिध्वजेषु ॥
KA 13.26 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन्वनेषु । स जवेन पतन्परःशतानां पततां व्रात इवारवं वितेने ॥
KA 13.27 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥
KA 13.28 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् । लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥
KA 13.29 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् । विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥
अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्ण्रयः स सम्भ्रमेण । निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →