Skip to main content
Search
KA
Kirātārjunīyam • Chapter 13

Canto 13

त्रयोदशः सर्गः

Canto 13 of Kirātārjunīyam.

Total: 71 Verses • Citations: KA 13.1–71 • 1 Lexicon Terms • Page 3 of 3 (Verses 11 shown)
KA 13.61 रथोद्धता
शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥
KA 13.62 रथोद्धता
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥
KA 13.63 रथोद्धता
अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥
KA 13.64 रथोद्धता
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् । आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥
KA 13.65 रथोद्धता
यष्टुमिच्छसि पितॄन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः । दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥
KA 13.66 रथोद्धता
सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ॥
KA 13.67 रथोद्धता
अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥
KA 13.68 रथोद्धता
तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः । बाणमत्रभवते निजं दिशन्नाप्नुहि त्वमपि सर्वसम्पदः ॥
KA 13.69 रथोद्धता
आत्मनीनमुपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ॥
KA 13.70 रथोद्धता
दृश्यतामयमनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः । साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥
KA 13.71 वसन्ततिलका
सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरङ्गमकेतुलक्ष्मीम् । अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ॥
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →