Skip to main content
Search
KA
Kirātārjunīyam • Chapter 10

Canto 10

दशमः सर्गः

Canto 10 of Kirātārjunīyam.

Total: 63 Verses • Citations: KA 10.1–63 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
KA 10.1 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अथ परिमलजामवाप्य लक्ष्मीमवयवदीपितमण्डनश्रियस्ताः । वसतिमभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥
KA 10.2 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
द्रुतपदमभियातुमिच्छतीनां गमनपरिक्रमलाघवेन तासाम् । अवनिषु चरणैः पृथुस्तनीनामलघुनितम्बतया चिरं निषेदे ॥
KA 10.3 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
निहितसरसयावकैर्बभासे चरणतलैः कृतपद्धतिर्वधूनाम् । अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ॥
KA 10.4 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः । प्रतिरवविततो वनानि चक्रे मुखरसमुत्सुकहंससारसानि ॥
KA 10.5 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि । अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥
KA 10.6 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः । उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥
KA 10.7 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥
KA 10.8 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् । ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥
KA 10.9 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः । बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥
KA 10.10 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । अनुपमशमदीप्ततागरीयान्कृतपदपङ्क्तिरथर्वणेव वेदः ॥
KA 10.11 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः । शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन्महीधरस्य ॥
KA 10.12 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सुरसरिति परं तपोऽधिगच्छन्विधृतपिशङ्गबृहज्जटाकलापः । हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥
KA 10.13 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् । दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥
KA 10.14 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या । ससचिव इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥
KA 10.15 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥
KA 10.16 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुनिदनुतनयान्विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि । अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥
KA 10.17 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥
KA 10.18 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः । युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥
KA 10.19 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम् । व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥
KA 10.20 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥
KA 10.21 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ॥
KA 10.22 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥
KA 10.23 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥
KA 10.24 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥
KA 10.25 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥
KA 10.26 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥
KA 10.27 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥
KA 10.28 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणमसमयजं चिराय लेभे विरलतुषारकण्।अस्तुषारकालः ॥
KA 10.29 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥
KA 10.30 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥
← Previous (Ch. 9) Full Table of Contents Next (Ch. 11) →