स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः । रराज समरे शत्रून्घ्नन्दुष्-कृत-बहिष्-कृतः ॥
चतुष्-काष्ठं क्षिपन्वृक्षान्तिरस्-कुर्वन्नरीन्रणे । तिरस्-कृत-दिगाभोगो ददृशो बहुधा भ्रमन् ॥
द्विष्-कुर्वतां चतुष्-कुर्वन्नभिघातं नरैर्द्विषाम् । बहिष्-करिष्यन्संग्रामाद्रिपून्ज्वलन-पिङ्गलः ॥
ज्योतिष्-कुर्वन्निवैकोऽसावाटीत्संख्ये परार्ध्य-वत् । तमरायुष्-करं प्राप शक्र-शत्रुर्धनुष्-करः ॥
अस्यन्नरुष्-करान्बाणान्ज्योतिष्-कर-सम-द्युतिः । यशस्-करो-यशस्-कामं कपिं बाणैर्ताडयत् ॥
चकाराऽधस्-पदं नाऽसौ चरन्वियति मारुतिः । मर्मा-विद्भिस्तमस्-काण्डैर्विध्यमानोऽप्यनेकधा ॥
पुरुहूत-द्विषो धूर्षु युक्तान्यानस्य वाजिनः ।आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत् ॥
सुषुपुस्ते यदा भूमौ रावणिः सारथिं तदा ।आहर्तुमन्यानशिषत्प्रोषित-त्रास-कर्कशः ॥
प्रतुष्टूषुः पुनर्युद्धमासिषञ्जयिषुर्भयम् ।आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव ॥
बलान्यभिषिषिक्षन्तं तरुभिः कपि-वारिदम् । विजिगीषुः पुनश्चक्रे व्यूहं दुर्-जयमिन्द्रजित् ॥
अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवाऽऽत्मनः । संप्रहार-समुद्भूतै रक्तैः कोष्णैररुश्-च्युतैः ॥
संग्रामे तानधिष्ठास्यन्निषद्य पुर-तोरणम् ।अविषीदन्नवष्टब्धान्व्यष्टभ्नान्नर-विष्वणान् ॥
विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमवाकिरन् । यन्न व्यषहतेन्द्रोऽपि; कपिः पर्यषहिष्ट तत् ॥
विष्यन्दमान-रुधिरो रक्त-विस्यन्द-पाटलान् । विष्कन्त्न्परिघेणाऽहन्नविस्कन्ता कपिर्द्विषः ॥
मेघ-नादः परिस्कन्दन्परिष्कन्दन्तमाश्वरिम् ।अबध्नादपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन् ॥
विस्फुलद्भिर्गृहीतोऽसौ निष्फुलः पुरुषाऽशनैः । विष्कम्भितुं समर्थोऽपि नाऽचलद्ब्रह्म-गौरवात् ॥
कृषीढ्वं भर्तुरानन्दं मा न प्रोढ्वं द्रुतं वियत् । वानरं नेतुमित्युच्चैरिन्द्र-जित्प्रावदत्स्वकान् ॥
"गतमङ्गुलि-षङ्गं त्वां भीरु-ष्ठानादिहाऽऽगतम् । खादिष्याम"इति प्रोचुर्नयन्तो मारुतिं द्विषः ॥
"अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान् । योऽरक्षीत्तस्य दूतोऽयं मानुषस्येति चाऽवदन् ॥
"नासां मातृ-ष्वसेय्याश्च रावणस्य लुलाव यः । मातुः स्वसुश्च तनयान्खराऽऽदीन्विजघान यः ॥
प्रादुःषन्ति न संत्रासा यस्य रक्षः-समागमे । तस्य क्षत्रिय-दुःषूतेरयं प्रणिधिरागतः ॥
दृष्ट्वा सु-षुप्तं राजेन्द्रं पापोऽयं विषमाऽशयः । चार-कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम् ॥
सुप्रतिष्णात-सूत्राणा कपिष्ठल-सम-त्विषाम् । स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् ॥
सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम् । शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्-मलाम् ॥
सु-षाम्नीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम् । निष्टपन्तीमिवाऽऽत्मानं ज्योतिःसात्-कुर्वतीं वनम् ॥
मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम् ।उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव ॥
विलोचनाऽम्बु मुञ्चन्तीं-कुर्वाणां परि-सेसिचाम् । हृदयस्येव शोकाऽग्नि-संतप्तस्योत्तम-व्रताम् ॥
दृष्ट्वा तामभनग्वृक्षान्द्विषो घ्नन्परिसेधतः । परितस्तान्विचिक्षेप क्रुद्धः स्वयमिवाऽनिलः ॥
अ-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे । विसोढवन्तमस्त्राणि व्यतस्तम्भद्घन-ध्वनिः" ॥
ते विज्ञायाऽभिसोष्यनतं रक्तै रक्षांसि स-व्यथाः ।अन्यैरप्यायतं नेहुर्वरत्रा-शृङ्खलाऽऽदिभिः ॥