अथ स वल्क-दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः ।उदपतद्दिवमाकुल-लोचनैर्नृ-रिपुभिः स-भ्यैरभिवीक्षितः ॥
रण-पण्डितोऽग्र्य-विबुधाऽरि-पुरे कलहं स राम-महितः कृतवान् । ज्वलदग्नि रावण-गृहं च बलात्बलहंस्-रामम-हितः कृतवान् ॥
निखिलाऽभवन्न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता । वनिता-जनेन वियता वियता त्रि-पुराऽपदं नगमिता गमिता ॥
सरसां स-रसां परिमुच्य तनुं पततां पततां ककुभो बहुशः । स-कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम् ॥
न च कांचन काञ्चन-सद्म-चितिं न कपिः शिखिना शिखिना समयौत् । न च न द्रवता द्रवता परितो हिम-हान-कृता न कृता क्व च न ॥
अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मर-भासितम् । न स-मदाः प्रमदा हत-संमदाः पुर-हितं विहितं न समीहितम् ॥
समिद्ध-शरणा दीप्ता देहे लङ्का मतेश्वरा । समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा ॥
पिशिताऽशिनामनु-दशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता । हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता ॥
न गजा नग-जा दयिता दयिता वि-गतं विगतं ललितं ललितम् । प्रमदा प्र-मदाऽऽम-हता महता- म-रणं मरणं समयात्समयात् ॥
न वानरैः पराक्रान्तां महद्भिर्भीम-विक्रमैः । न वा नरैः पराक्रान्तां ददहा नगरीं कपिः ॥
द्रुतं द्रुतं वह्नि-समागतं गतं महीमहीन-द्युति-रोचितं चितम् । समं समन्तादप-गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥
नश्यन्ति ददर्श वृन्दानि कपीन्द्रः । हारीण्या-बलानां हारीण्या-बलानाम् ॥
नारीणामपनुनुदुर्न देह-खेदान्नाऽऽरीणाऽमल-सलिला हिरण्य-वाप्यः । नाऽऽरीणामनल-परीत-पत्र-पुष्पान्नाऽरीणामभवदुपेत्य शर्म वृक्षान् ॥
अथ लुलित-पतत्रि-मालं रुग्णाऽसन-बाण-केशर-तमालम् । स वनं विविक्त-मालं सीतां द्रष्टुं जगामाऽलम् ॥
घन-गिरीन्द्र-विलङ्घन-शालिना वन-गता वन-ज-द्युति-लोचना । जन-मता ददृशे जनकाऽऽत्मजा तरु-मृगेण तरु-स्थल-शायिनी ॥
कान्ता महमाना दुःखं च्युत-भूषा । रामस्य वियुक्ता कान्ता सह-माना ॥
मितमवददुदारं तां हनूमान्मुदाऽरं रघु-वृषभ-सकाशं यामि देवि ! प्रकाशम् । तव विदित-विषादो दृष्ट-कृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम् ॥
उदपतद्वियद-प्रगमः परै रुचितमुन्नति-मत्-पृथु-सत्त्व-वत् । रुचित-मुन्नति-मत्पृथु-सत्त्व-वत्प्रतिविधाय वणुर्भय-दं द्विषाम् ॥
बभौ मरुत्वान्वि-कृतः स-मुद्रो बभौ मरुत्वान्विकृतः स-मुद्रः । बभौ मरुत्वान्विकृतः समुद्रो बभौ मरुत्वान्विकृतः स मुद्रः ॥
अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः । कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम् ॥
अभियाऽताऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः । कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम् ॥
चित्रं चित्रमिवाऽऽयातो विचित्रं तस्य भू-भृतम् । हरयो वेगमासाद्य संत्रस्ता मुमुहुर्मुहुः ॥
गच्छन्स वारीण्यकिरत्पायोधेः कूल-स्थितांस्तानि-तरूनधुन्वन् । पुष्पाऽऽस्तरांस्तेऽङ्ग-सूखानतन्वन्तान्किन्नरा मन्मथिनोऽध्यतिष्ठन् ॥
स गिरिं तरु-खण्ड-मण्डितं समवाप्य त्वरया लता-मृगः । स्मित-दर्शित-कार्य-निश्चयः कपि-सैन्यैर्मुदितैरमण्डयत् ॥
गरुडाऽनिल-तिग्म-रश्मयः पततां यधपि संमता जवे ।अ-चिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते ॥
व्रण-कन्दर-लीन-शस्त्र-सर्पः पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः । च्युत-शोणित-बद्ध-धातु-रागः शुशुभे वानर-भू-धरस्तदाऽसौ ॥
चल-पिङ्ग-केशर-हिरण्य-लताः स्थुट-नेत्र-पङ्क्ति-मणि-संहतयः । कलधैत-सानव इवाऽथ गिरेः कपयो बहूः पवन-जाऽऽगमने ॥
कपि-तोय-निधीन्प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन । वचनाऽमृत-दीधितीर्वितन्व- न्नकृताऽऽनन्द-परीत-नेत्र-वारीन् ॥
परिखेदित-विन्ध्य-वीरुधः परिपीताऽमल-निर्झराऽम्भसः । दुधुवुर्मधु-काननं ततः कपि-नागा मुदिताऽङ्गदाऽऽज्ञया ॥
विटपि-मृग-विषाद-ध्वान्त-नुद्वानराऽर्कः प्रिय-वचनम-युखैर्बोधिताऽर्थाऽरविन्दः ।उदय-गिरिमिवाऽद्रिं संप्रमुच्याऽभ्यगात्खं नृप-हृदय-गुहा-खं घ्नन्प्र-मोहाऽन्धकारम् ॥