अथाऽस्तमासेदुषि मन्द-कान्तौ पुण्य-क्षयेणेव निधौ कलानाम् । समाललम्बे रिपु-मित्र-कल्पैः पद्मैः प्रहासः कुमुदैर्विषादः ॥
दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम् । बद्धाऽनुरागोऽनुपपात तूर्णं तारा-गणः संभृत-शुभ्र-कीर्तिः ॥
क्व ते कटाक्षाः क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा । लङ्काऽङ्गनानामवबोध-काले लुलामनारुह्य गतोऽस्तमिन्दुः ॥
मानेन तल्पेष्व-यथा-मुखीना मिथ्या-प्रसुप्तैर्गमित-त्रियामाः । स्त्रीभिर्निशाऽतिक्रम-विह्वलाभिर्दृष्टेऽपि दोषे पतयोऽनुनीताः ॥
ईर्श्या-विरुग्णाः स्थिर-बद्ध-मूला निरस्त-निःशेष-शुभ-प्रतानाः ।आप्यायिता नेत्र-जल-प्रसेकैः प्रेम-द्रुमाः संरुरुहुः प्रियाणाम् ॥
ततः समाशङ्कित-विप्रयोगः पुनर्-नवीभूत-रसोऽवितृष्णः । स्मरस्य सन्तं पुनरुक्त-भावं नाऽऽवर्तमानस्य विवेद लोकः ॥
वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रिय-संभवेन । संकोचमेवाऽसहमानमस्था- द-शक्त-वद्वञ्चित-मानि चक्षुः ॥
पीने भटस्योरसि वीक्ष्य भुग्नांस्तनु-त्वचः पाणि-रुहान्सु-मध्या ।इच्छा-विभङ्गाऽऽकुल-मानसत्वाद्भर्त्रे नखेभ्यश्च चिरं जुजूरे ॥
स्रस्ताऽङ्ग-चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बु-रोमोद्गम-गम्य-जीवः ।अ-शेष-नष्ट-प्रतिभा-पटुत्वो गाढोपगूढो दयितैर्जनोऽभूत् ॥
तमः प्रसुप्तं मरणं सुखं नु मूर्च्छा नु माया नु मनोभवस्य । किं तत्कथं वेत्युपलब्ध-संज्ञा विकल्पयन्तोऽपि न संप्रतीयुः ॥
वक्षः स्तनाभ्यां सुखमाननेन गात्राणि गात्रैर्घटयन्न-मन्दम् । स्मराऽतुरो नैव तुतोष लोकः पर्याप्तता प्रेम्णि कुतो विरुद्धा ॥
स्रस्ताऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी ।अनूढमाना शयने नवोढा परोपकारैक-रसैव तस्थौ ॥
आलिङ्गितायाः सहसा त्रपा-वांस्त्रासाऽभिलाषाऽनुगतो रताऽऽदौ । विश्वासिताया रमणेन वध्वा विमर्द-रम्यो-मदनो बभूव ॥
सामोन्मुखेनाऽऽच्छुरिता प्रियेण दत्तेऽथ काचित्पुलकेन भेदे ।अन्तः-प्रकोपाऽपगमाद्विलोला वशीकृता केवल-विक्रमेण ॥
गुरुर्दधाना परुष-त्वमन्या कान्ताऽपि कान्तेन्दु-कराऽभिमृष्टा । प्रह्लादिता चन्द्र-शिलेव तूर्णं क्षोभात्स्रवत्-स्वेदजला बभूव ॥
शशाङ्क-नाथाऽपगमेन धूम्रां मूर्च्छा-परीतामिव निर्-विवेकाम् । ततः सखीव प्रथिताऽनुरागा प्राबोधयत्द्यां मधुराऽरुणश्रीः ॥
अ-वीत-तृष्णोऽथ परस्परेण क्षणादिवाऽऽयात-निशाऽवसानः । दुःखेन लोकः परवानिवाऽगात्समुत्सुकः स्वप्न-निकेतनेभ्यः ॥
अर्धोत्थिताऽऽलिङ्गित-सन्निमग्नो रुद्धः पुनर्यान्गमनेऽनभीप्सुः । व्याजेन निर्याय पुनर्निवृत्तस्त्यक्ताऽन्य-कार्यः स्थित एव कश्चित् ॥
तालेन संपादित-साम्य-शोभं शुभाऽवधानं स्वर-बद्ध-रागम् । पदैर्गताऽर्थं नृप-मन्दिरेषु प्रातर्जगुर्मङ्गल-वत्तरुण्यः ॥
दुरुत्तरे पङ्क इवाऽन्धकारे मग्नं जगत्सन्तत-रश्मि-रज्जुः । प्रनष्ट-मूर्ति-प्रविभागमुद्यन्प्रत्युज्जहारेव ततो विवस्वान् ॥
पीतौष्ठ-रागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर्मुखानि । प्रातः कृताऽर्थानि यथा विरेजुस्तथा न पूर्वेद्युरलंकृतानि ॥
प्रजागराऽऽताम्र-विलोचनाऽन्ता निरञ्जनाऽलक्तक-पत्र-लेखाः । तुल्या इवाऽऽसन्परिखेद-तन्व्यो वास-च्युताः सेवित-मन्मथाभिः ॥
आबद्ध-नेत्राऽञ्जन-पङ्क-लेशस्ताम्बूल-रागं बहुलं दधानः । चकार कान्तोऽप्यधरोऽङ्गनानां सहोषितानां पतिभिर्लघुत्वम् ॥
चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूल-रक्तं च स-रागमोष्ठम् । कुर्वन्स-वासं च सु-गन्धि वक्त्रं चक्रे जनः केवल-पक्ष-पातम् ॥
क्षतैरसंचेतित-दन्त-लब्धैः संभोग-कालेऽवगतैः प्रभाते ।अ-शङ्कताऽन्योन्य-कृतं व्यलीकं वियोग-बाह्योऽपि जनोऽतिरागात् ॥
नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः कर्णाऽन्त-कृष्टैरुरु-केश-शूलाः । स्तनोरु-चक्रास्तत-कर्ण-पाशाः स्त्री-योद्ध-मुख्या जयिनो विचेरुः ॥
पयो-धरांश्चन्दन-पङ्क-दिग्धान्वासांसि चाऽमृष्ट-मृजानि दृष्ट्वा । स्त्रीणां स-पत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर्मनोभिः ॥
स्मराऽऽतुरे चेतसि लब्ध-जन्मा रराज लोलोऽपि गुणाऽपहार्यः । कुतूहलान्नेत्र-गवाक्ष-संस्थः पश्यन्निवाऽन्योन्य-मुखानि रागः ॥
गतेऽतिभूमिं प्रणये प्रयुक्ता- न-बुद्धि-पूर्वं परिलुप्तसंज्ञः ।आत्माऽनुभूतानपि नोपचारान्स्मराऽऽतुरः संस्मरति स्म लोकः ॥
वस्त्रैरनत्युल्बण-रम्य-वर्णैर्विलेपनैः सौरभ-लक्ष्मणीयैः ।आस्यैश्च लोकः परितोष-कान्तै- रसूचयल्लब्ध-पदं रहस्यम् ॥