ततः कर्ता वनाऽऽकम्पं ववौ वर्षा-प्रभञ्जनः । नभः पूरयितारश्च समुन्नेमुः पयो-धराः ॥
तर्पणं प्रजनिष्णूनां षस्यानाम-मलं पयः । रोचिष्णवः स-विस्फूर्जा मुमुचुर्भिन्न-वद्घनाः ॥
निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः ।अलंकरिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः ॥
तान्विलोक्याऽसहिष्णुः सन्विललान्पोन्मदिष्णु-वत् । वसन्माल्यवति ग्लास्नू रामो जिष्णुर-धृष्णु-वत् ॥
"भ्रमी कदम्ब-संभिन्नः पवनः शमिनामपि । क्लमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः ॥
संज्वारिणेव मनसा ध्वान्तमायासिना मया । द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम् ॥
कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् ।अभ्याघातिभिरामिश्राश्चातकैः परिराटिभिः ॥
संसर्गी परिदाहीव शीतोऽप्याभाति शीकरः । सोढुमाक्रीडिनोऽशक्याः शिखिनः परिवादिनः ॥
एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम् । पीडयन्ति जनं धाराः पतन्त्योऽनपकारिणम् ॥
कूर्याद्योगिनमप्येष स्फूर्जा-वान्परिमोहिनम् । त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः ॥
विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर्जलम् । पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम् ॥
प्रलापिनो भविष्यन्ति कदा न्वेतेऽपलाषिणः।" । प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः ॥
निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम् । प्रावृष्यनैषीत्काकुत्स्थः कथंचित्परिदेवकः ॥
अथोपशरदेऽपश्यत्क्रौञ्चानां चेष्टनैः कुलैः ।उत्कण्ठा-वर्धनैः शुभ्रं रवणैरम्बरं ततम् ॥
विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत् । "पश्य दन्द्रमणान्हंसानरविन्दसमुत्सुकान् ॥
कपिश्चङ्क्रमणोऽद्यापि नाऽसौ भवति गर्धनः । कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम् ॥
नाऽवैत्याप्यायितारं किं कमलानि रविं कपिः । दीपितारं दिनाऽऽरम्भे निरस्त-ध्वान्त-संचयम् ॥
अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे । गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम् ॥
जल्पाकीभिः सहाऽऽसीनः स्त्रीभिः प्रजविना त्वया । गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः ॥
शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी । न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम् ॥
स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुम-दयालु-वत् । श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्।" ॥
सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः । विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान्कपीन् ॥
तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः ।अ-कम्प्रं मारुतिर्दीप्रं नम्रः प्रावेशयद्गुहाम् ॥
कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः ।इच्छुः प्रसादं प्रणयन्सुग्रीवः प्रावदन्नृपम् ॥
"अहं स्वप्नक्प्रसादेन तव वन्दारुभिः सह ।अ-भीरुरवसं स्त्रीभिर्भासुराभिरीहेश्वरः ॥
विद्यन्-नाशं रवेर्भासं विभ्राजं शश-लाञ्छनम् । राम-प्रत्तेषु भोगेषु नाहमज्ञासिषं रतः ॥
एष शोक-च्छिदो वीरान्प्रभो ! सम्प्रति वानरान् । धरा-शैल-समुद्राणामन्त-गान्प्रहिणोम्यहम् ॥
राघवस्य ततः कार्यं कारुर्वानर-पुङ्गवः । सर्व-वानर-सेनानामाश्वागमनमादिशत् ॥
"वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः । कारका मित्र-कार्याणि सीता-लाभाय" सोऽब्रवीत्।" ॥
ततः कपीनां संघाता हर्षाद्राघव-भूतये । पूरयन्तः समाजग्मुर्भय-दाया दिशो दश ॥