ओषांचकार कामाऽग्निर्दशा-वक्त्रमहर्-निशम्। । विदांचकार वैदेहीं रामादन्य-निरुत्सुकाम् ॥
प्रजागरांचकारारेरीहास्वनिशमादरात् । प्रबिभयांचकाराऽसौ काकुत्स्थादभिशङ्कितः ॥
न जिह्रयांचकाराऽथ सीतामभ्यर्थ तर्जितः। । नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम् ॥
विदांकुर्वन्तु रामस्य वृत्तमित्यवदत्स्वकान् । रक्षांसि रक्षितुं सीतामाशिषच्च प्रयत्नवान् ॥
रामोऽपि हत-मारीचो निवर्त्स्यन्खर-नादिनः । क्रोष्टून्समशृणोत्क्रूरान्रसतोऽशुभ-शंसिनः ॥
आशङ्कमानो वैदेहीं खादितां निहतां मृताम् । स शत्रु-घ्नस्य सोदर्यं दूरादायान्तमैक्षत ॥
सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां । विज्ञायाऽमंस्त काकुत्स्थः"क्षये क्षेमं सदुर्लभम्।" ॥
सोऽपृच्छल्लक्ष्मणं सीतां याचमानः शिवं सुरान् । रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः ॥
संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् । प्राणान्दुहन्निवाऽऽत्मानं शोकं चित्तमवारुधत् ॥
"गता स्यादवचिन्वाना कुसुमान्याश्रम-द्रुमान्। ।आ यत्र तापसान्धर्मं सुतीक्ष्णः शास्ति तत्र सा ॥
आः कष्टं बत ही-चित्रं हूं मातर्दैवतानि धिक् । हा पितः ! क्वाऽसि हे सु-भ्रु !" बह्वेवं विललाप सः ॥
इहाऽऽसिष्ठाऽशयिष्टेह सा स-खेलमितोऽगमत् ।अग्लासीत्संस्मरन्नित्थं मैथिल्या भरताऽग्रजः ॥
"इदं नक्तं-तनं दाम पौष्पमेतद्दिवा-तनम् । शुचेवोद्बध्य शाखायां प्रग्लायति तया विना ॥
ऐक्षिष्महि मुहुः सुप्तां यां मृताऽऽशङ्कया वयम् ।अ-काले दुर्मरमहो यज्जीवामस्तया विना ॥
अ-क्षेमः परिहासोऽयं। परीक्षां मा कृथा मम । मत्तो माऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः ॥
अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम् । मा घुक्षः पत्युरात्मानं मा न श्लिक्षः प्रियं प्रिये ॥
मा स्म द्राक्षीर्मृषा दोषं भक्तं मा मातिचिक्लिशः । शैलं न्यशिश्रियद्वामा नदीं नु प्रत्यदुद्रुवत् ॥
ऐ वाचं देहि। धैर्यं नस्तव हेतोरसुस्रुवत्। । त्वं नो मतिमिवाऽघासीर्नष्टा प्राणानिवाऽदधः ॥
रुदतोऽशिश्वयच्चक्षु रास्यं हेतोस्तवाऽश्वयीत् । म्रियेऽहं मां निरास्थश्चेन्मा न वोचश्चिकीर्षितम् ॥
लक्ष्मणाऽऽचक्ष्व यद्याख्यत्सा किञ्चित्कोप-कारणम् । दोषे प्रतिसमाधान मज्ञाते क्रियतां कथम् ॥
इह सा व्यलिपद्गन्धैः स्नान्तीहाऽभ्यषिचज्जलैः ।इहाऽहं द्रष्टुमाह्वं तां" स्मरन्नेवं मुमोह सः ॥
तस्याऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन् ।अलिप्तेवाऽनिलः शीतो वने तं न त्वजिह्लदत् ॥
स्नानभ्यषिचताऽम्भोऽसौ रुदन्दयितया विना । तथाऽभ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः ॥
तथाऽऽ र्तोऽपि क्रियां धर्म्यां स काले नाऽमुचत्क्वचित् । महतां हि क्रिया नित्या छिद्रे नैवाऽवसीदति ॥
आह्वास्त स मुहुः शूरान्मुहुराह्वत राक्षसान् । "एत सीताद्रुहः संख्ये प्रत्यर्तयत राघवम् ॥
स्व-पोषमपुषद्युष्मान्या पक्षि-मृग-शावकाः ! ।अद्युतच्चेन्दुना सार्धं तां प्रब्रूत गता यतः।" ॥
गिरिमन्वसृपद्रामो लिप्सुर्जनक-संभवाम् । तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन्महत् ॥
"सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम् ।इदं शोणितमभ्यग्रं सप्रहारेऽच्युतत्तयोः ॥
इदं कवचमच्योतीत्साऽश्वोऽयं चूर्णीतो रथः ।एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम् ॥
मन्युर्मन्ये ममाऽस्तम्भीद्विषादोऽस्तभदुद्यतिम् ।अजारीदिव च प्रज्ञा बलं शोकात्तथाजरत् ॥