Skip to main content
Search
BK
Bhaṭṭikāvyam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Bhaṭṭikāvyam.

Total: 143 Verses • Citations: BK 6.1–143 • 1 Lexicon Terms • Page 4 of 5 (Verses 30 shown)
BK 6.91 अनुष्टुप्
तं मनो-हरमागत्य गिरिं वर्म-हरौ कपिः । वीरौ सुखाऽऽहरोऽवोचद्भिक्षुर्भिक्षार्ह-विग्रहः ॥
BK 6.92 अनुष्टुप्
"बलिनावमूमद्रीन्द्रं युवां स्तम्बे-रमाविव ।आचक्षाथां मिथः कस्माच्छङ्करेणाऽपि दुर्गमम् ॥
BK 6.93 अनुष्टुप्
व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः । तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम् ॥
BK 6.94 अनुष्टुप्
सत्वमेजय-सिंहाऽऽढ्यान्स्तनं-धाय-सम-त्विषौ । कथं नाडिंधमान्मार्गानागतौ विषमोपलान् ॥
BK 6.95 अनुष्टुप्
अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः ।आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः ॥
BK 6.96 अनुष्टुप्
रामोऽवोचद्धनूमन्तम् "आवामभ्रं-लिहं गिरिम् ।ऐव विद्वन्! पितुः कामात्पान्तावल्पं-पचान्मुनीन् ॥
BK 6.97 अनुष्टुप्
अ-मितं-पचमीशानं सर्व-भोगीणमुत्तमम् ।आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि ॥
BK 6.98 अनुष्टुप्
छलेन दयिताऽरण्याद्रक्षसाऽरुं-तुदेन नः ।अ-सूर्यं-पश्यया मूर्त्या हृता तां मृगयावहे।" ॥
BK 6.99 अनुष्टुप्
प्रत्यूचे मारुति रामम् "अस्ति वालीति वानरः" । शमयेदपि संग्रामे यो ललाटं-तपं रविम् ॥
BK 6.100 अनुष्टुप्
उग्रं-पश्येन सुग्रीवस्तेन भ्राता निराकृतः । तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशं-वदः ॥
BK 6.101 अनुष्टुप्
प्रियं-वदोऽपि नैवाऽहं ब्रुवे मिथ्या परं-तप ! । सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम् ॥
BK 6.102 अनुष्टुप्
वाचं-यमोऽहमनृते सत्यमेतद्ब्रवीमि ते ।एहि सर्वं-सहं मित्रं सुग्रीवं कुरु वानरम्।" ॥
BK 6.103 अनुष्टुप्
सर्वं-कष-यशः-शाखं राम-कल्प-तरुं कपिः ।आदायाऽ भ्रं-कषं प्रायान्मलयं फल-शालिनम् ॥
BK 6.104 अनुष्टुप्
मेघं-करमिवायान्तमृतुं रामं क्लमान्विताः । दृष्ट्वा मेने नसुग्रीवो वालि-भानुं भयं-करम् ॥
BK 6.105 अनुष्टुप्
उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियं-करौ । क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः ॥
BK 6.106 अनुष्टुप्
आशितं-भवमुत्क्रुष्टं वल्गितं शयितं स्थितम् । बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम् ॥
BK 6.107 अनुष्टुप्
ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम् । सुग्रीवः प्राब्रवीद्रामं वालिनो युधि विक्रमम् ॥
BK 6.108 अनुष्टुप्
"वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली । हृदयं-गममेतत्त्वां ब्रवीमि न पराभवम् ॥
BK 6.109 अनुष्टुप्
दूर-गैरन्त-गैर्बाणैर्भवानत्यन्त-गः श्रियः ।अपि संक्रन्दनस्य स्यात्क्रुद्धः किमुत वालिनः ॥
BK 6.110 अनुष्टुप्
वरेण तु मुनेर्वाली संजातो दस्युहो रणे ।अ-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः ॥
BK 6.111 अनुष्टुप्
अतिप्रियत्वान्न हि मे कातरं प्रतिपद्यते । चेतो वालि-वधं राम ! क्लेशापहमुपस्थितम् ॥
BK 6.112 अनुष्टुप्
शीर्ष-घातिनमायातमरीणां त्वां विलोकयन् । पतिघ्नी-लक्ष्मणोपतां मन्येऽहं वालिनः श्रियम् ॥
BK 6.113 अनुष्टुप्
शत्रुघ्नान्युधि हस्तिघ्नो गिरीन्क्षिप्यन्न-कृत्रिमान् । शिल्पिभिः पाणिघैः क्रुद्धस्त्वया जय्योऽभ्युपाय-वान् ॥
BK 6.114 अनुष्टुप्
आढ्यं-करण-विक्रान्तो महिषस्य सुरद्विषः । प्रियं-करणमिन्द्रस्य दुष्करं कृतवान्वधम् ॥
BK 6.115 अनुष्टुप्
प्रियंभावुकतां यातस्तं क्षिपन्योजनं मृतम् । स्वर्गे प्रियं-भविष्णुश्च क्र्त्स्नं शक्तोऽप्यबाधयन्" ॥
BK 6.116 अनुष्टुप्
जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः ।अभीनत्प्रतिपत्त्यर्थं सप्त व्योम स्पृशस्तरून् ॥
BK 6.117 अनुष्टुप्
ततो वालि-पशौ वध्ये राम-र्त्विग्-जित-साध्वसः ।अभ्यभून्निलयं भ्रातुः सुग्रीवो निनदन्दधृक् ॥
BK 6.118 अनुष्टुप्
गुहाया निरगाद्वाली सिंहो मृगमिव द्युवन् । भ्रातरं युङ्भियः संख्ये घोषेणाऽऽपूरयन्दिशः ॥
BK 6.119 अनुष्टुप्
व्यायच्छमानयोर्मूढो भेदे सदृशयोस्तयोः । बाणमुद्यतमायंसीदिक्ष्वाकु-कुल-नन्दनः ॥
BK 6.120 अनुष्टुप्
ऋष्यमूकमगात्क्लन्तः कपिर्मृग-सदृग्द्रुतम् । किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन् ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →