Skip to main content
Search
BK
Bhaṭṭikāvyam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Bhaṭṭikāvyam.

Total: 143 Verses • Citations: BK 6.1–143 • 1 Lexicon Terms • Page 2 of 5 (Verses 30 shown)
BK 6.31 अनुष्टुप्
गृध्रस्येहाश्वतां पक्षौ कृतौ वीक्षस्व लक्ष्मण ! । जिघत्सोर्नूनमापादि ध्वंसोऽयं तां निशा-चरात्।" ॥
BK 6.32 अनुष्टुप्
क्रुद्धोऽदीपि रघु-व्याघ्रो रक्त-नेत्रोऽजनि क्षणात् ।उबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानु-वत् ॥
BK 6.33 अनुष्टुप्
अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत् ।उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत् ॥
BK 6.34 अनुष्टुप्
अदोहीव विषादोऽस्य समरुद्धेव विक्रमः । समभावि च कोपेन न्यश्वसीच्चाऽऽयतं मुहुः ॥
BK 6.35 अनुष्टुप्
अथाऽऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः । "रुणध्मि सवितुर्मार्गं भिनद्मि कुल-पर्वतान् ॥
BK 6.36 अनुष्टुप्
रिणच्मि जलधेस्तोयं विविनच्मि दिवः सुरान् । क्षुणद्मि सर्पान्पाताले छिनद्मि क्षणदा-चरान् ॥
BK 6.37 अनुष्टुप्
यमं युनज्मि कालेन समिन्धानोऽस्त्र-कौशलम् । शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा ॥
BK 6.38 अनुष्टुप्
भूतिं तृणद्मि यक्षाणां हिनस्मीन्द्रस्य विक्रमम् । भनज्मि सर्व-मर्यादास्तनच्मि व्योम विस्तृतम् ॥
BK 6.39 अनुष्टुप्
न तृणेह्मीति लोकोऽयं मां विन्ते निष्-पराक्रम्" ।एवं वदन्दाशरथिरपृणग्धनुशा शरं ॥
BK 6.40 अनुष्टुप्
न्यवर्तयत्सुमित्रा-भूस्तं चिकीर्षुं जगत्-क्षयम् ।ऐक्षेतामाश्रमादाराद्गिरिकल्पं पतत्रिणम् ॥
BK 6.41 अनुष्टुप्
तं सीता-घातिनं मत्वा हन्तुं रामोऽभ्यधावत । "मा वधिष्ठा जटायुं मां सीतां रामाऽहमैक्षिषि।" ॥
BK 6.42 अनुष्टुप्
उपास्थितैवमुक्ते तं सखायं राघवः पितुः । पप्रच्छ जानकी-वार्तां संग्रामं च पतत्रिणम् ॥
BK 6.43 अनुष्टुप्
व्रण-वेदनया ग्लायन्ममार गिरि-कन्दरे । तस्याग्न्यम्बु-क्रियां कृत्वा प्रतस्थाते पुनर्वनम् ॥
BK 6.44 अनुष्टुप्
सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता । क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना ॥
BK 6.45 अनुष्टुप्
भुजौ चकृततुस्तस्य निस्त्रिंशाभ्यां रघूत्त्मौ । स छिन्न-बाहुरपतद्विह्वलो ह्वलयन्भुवम् ॥
BK 6.46 अनुष्टुप्
प्रष्टव्यं पृच्छतस्तस्य कथनीयमवीवचत् ।आत्मानं वन-वासं च जेयं चाऽरिं रघूत्तमः ॥
BK 6.47 अनुष्टुप्
"लभ्या कथं नु वैदेही शक्यो द्रष्टुं कथं रिपुः । सह्यः कथं वियोगश्च गद्यमेतत्त्वया मम।" ॥
BK 6.48 अनुष्टुप्
"अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन् । पाप-चर्यो मुनेः शापाज्जात"इत्यवदत्स तम् ॥
BK 6.49 अनुष्टुप्
"प्रयातस्तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते । रावणेन हृता सीता लङ्कां नीता सुरारिणा ॥
BK 6.50 अनुष्टुप्
ऋष्यमूकेऽनवद्योऽस्ति पण्य-भ्रातृ-वधः कपिः । सुग्रीवो नाम वर्योऽसौ भवता चारु-विक्रमः ॥
BK 6.51 अनुष्टुप्
तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम् । राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम् ॥
BK 6.52 अनुष्टुप्
आस्ते स्मरन्स कान्ताया हृताया वालिना कपिः । वृषो यथोपसर्याया गोष्ठे गोर्दण्ड-ताडितः ॥
BK 6.53 अनुष्टुप्
तेन सङ्गतमार्येण रामाऽजर्यं कुरु द्रुतम्। । लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि ॥
BK 6.54 अनुष्टुप्
अनृतोद्यं न तत्रास्ति सत्य-वद्यं ब्रवीम्यहम्। । मित्र-भूयं गतस्तस्य रिपु-हत्यां करिष्यसि ॥
BK 6.55 अनुष्टुप्
आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण संगतः ।इत्यः शिष्येण गुरुवद्गृध्यमर्थमवाप्स्यसि ॥
BK 6.56 अनुष्टुप्
नाऽखेयः सागरोऽप्यन्यस्तस्य सद्-भृत्य-शालिनः । मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते।" ॥
BK 6.57 अनुष्टुप्
स राजसूययाजीव तेजसा सूर्य-सन्निभः ।अ-मृषोद्यं वदन्रुच्यो जगाहे द्यां निशा-चरः ॥
BK 6.58 अनुष्टुप्
अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः । रत्नाऽन्न-पान-कुप्यानामाटतुर्नष्टसंस्मृती ॥
BK 6.59 अनुष्टुप्
समुत्तरन्ताव-व्यथ्यौ नदान्भिद्योद्ध्य-सन्निभान् । सिध्य-तारामिव ख्यातां शबरीमापतुर्वने ॥
BK 6.60 अनुष्टुप्
वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम् । क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिनाऽऽस्तराम् ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →