कुर्वन्तो हवमाप्तानां पिपासा-वध-काङ्क्षिणः । द्वारं तमो-घन-प्रख्यं गुहायाः प्राविशन्द्रुतम् ॥
तस्मिन्नन्तर्घणेऽपश्यन्प्रघाणे सौध-सद्मनः। । लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम् ॥
सा स्तम्बघ्न-पद-न्यासान्विघनेन्दु-सम-द्युतिः । परिघोरु-भुजानाह हसन्ती स्वागतं कपीन् ॥
पिप्रायाऽद्रि-गुहोपघ्नानुद्घान्संघसमागतान् । फलैर्नाना-रसैश्चित्रैः स्वादु-शीतैश्-च वारिभिः ॥
निघाऽनिघ-तरु-च्छन्ने तस्मिंस्ते लब्ध्रिमैः फलैः । तृप्तास्तां भ्राजथु-मतीं पप्रच्छुः-"कस्य पूरियम्।" ॥
"रक्ष्णं करोषि कस्मात्त्वं यत्नेनाऽऽख्यायतां शुभे ! । स्वप्ने निधि-वदाभाति तव संदर्शनं हि नः ॥
ततो जलधि-गम्भीरान्वानरान्प्रत्यवाच सा । "इयं दानव-राजस्य पूः सृष्टिर्विश्वकर्मणः ॥
जिहतश्च स्थितिं भिन्दन्दानवोऽसौ जल-द्विषा । दुहिता मेरुसावर्णेरहं नाम्ना स्वयं-प्रभा ॥
जूतिमिच्छथ चेत्तूर्णं कीर्तिं वा पातुमात्मनः । करोमि वा बहिर्-यूतीन्पिधध्वं पाणिभिर्दृशः" ॥
प्रज्या-यती निरुद्धाऽक्षान्विद्येवाऽनुष्ठित-क्रियान् । निरचिक्रमदिच्छा-तो वानरांश्चङ्क्रमा-वतः ॥
निष्क्रम्य शिक्षया तस्यास्त्रपा-वन्तो रसा-तलात् । ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे ॥
चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः । "अ-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम् ॥
प्रायोपासनया शान्तिं मन्वानो वालि-संभवः । युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम् ॥
प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् । "धिक्शालभञ्जिका-प्रख्यान्विशयान्कल्पना-रुचीन् ॥
यां कारिं राज-पुत्रोऽयमनुतिष्ठति तां क्रियाम् ।अहमप्यनुतिष्ठामि" सोऽप्युक्त्वैवमुपाविशत् ॥
उवाच मारुतिर्वृद्धे संन्यासिन्यत्र वानरात् । "अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम् ॥
अ-भावे भवतां योऽस्मिन्जीवेत्तस्याऽस्त्व-जीवनिः" ।इत्युक्त्वा सर्व एवाऽस्थुर्बद्ध्वा योगाऽऽसनानि ते ॥
अ-क्लेश्यमसिनाऽग्न्यन्तं कबन्ध-वधमभ्यधुः । धिङ्नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत् ॥
ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम् ।अशनीयमिवाशंसुर्महानायाद-शोभनः ॥
देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्याऽशुभाऽऽकरम् । पाप-गोचरमात्मानमशोचन्वानरा मुहुः ॥
"जटायुः पुण्य-कृत्पक्षी दण्डकारण्य-सञ्चरः । कृत्वा राघव-कार्यं यः स्वराऽऽरूढोऽग्नि-संस्कृतः ॥
नरकस्याऽवतारोऽयं प्रत्यक्षोऽस्माकमागतः ।अ-चेष्टा यदिहाऽन्यायादनेनाऽत्स्यामहे वयं ॥
हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम् । शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-ऽमुं शर्म दुर्लभम् ॥
ईषदाढ्यङ्करोऽप्येष न परत्राऽशुभ-क्रिया ।अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया।" ॥
संप्राप्य वानरान्पक्षी जगाद मधुरं वचः । "के यूयं दुरुपस्थाने मनसाऽप्यद्रि-मूर्धनि ॥
आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम् । समानोदर्यमस्माकं जटायुं च स्थुथाऽऽदरात् ॥
शङ्का-धवित्र-वचनं प्रत्यूचुर्वानराः खगम् । "वयं शत्रु-लवित्रेषोर्दूता रामस्य भू-पतेः ॥
केनाऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् । हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम् ॥
त्रिंशत्तममहर्यातं मत्वा प्रत्यागमाऽवधिम् ।अ-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे ॥
म्रियामहे न गच्छामः कौशल्यायनि-वल्लभाम् ।उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !" ॥