निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम् ।उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ ॥
तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ ।अकार्ष्टामायुध-च्छायं रजः-सन्तमसे रणे ॥
अथ तीक्ष्णाऽऽयसैर्बानैरधि-मर्म रघूत्तमौ । व्याधं व्याधम-मूढौ तौ यम-साच्-चक्रतुर्द्विषौ ॥
हत-बन्धुर्जगामाऽसौ ततः शूर्प-णखा वनात् । पारे-समुद्रं लङ्कायां वसन्तं रावणां पतिम् ॥
संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला । नाम-ग्राममरोदीत्सा भ्रातरौ रावणाऽन्तिके ॥
"दण्डकानध्यवात्तां यौ वीर ! रक्षः-प्रकाण्डकौ । नृभ्यां संख्येऽकृशातां तौ स-भृत्यौ भूमि-वर्ध्नौ ॥
विग्रहस्तव शक्रेण बृहस्पति-पुरोधसा । सार्धं कुमार-सेनान्या शून्यश्चाऽसीति को नयः ॥
यद्यहं नाथ ! नाऽयास्यं वि-नासा हत-बान्धवा । नाऽज्ञास्यस्त्वमिदं सर्वं प्रमाद्यंश्चार-दुर्-बलः ॥
करिष्यमाणं विज्ञेयं कार्यं किं नु कृतं परैः ।अपकारे कृतेऽप्यज्ञो विजिगीषुर्न वा भवान् ॥
वृतस्त्वं पात्रे-समितैः खट्वाऽऽरूढः प्रमाद-वान् । पान-शौण्डः श्रियं नेता नाऽत्यन्तीन-त्वमुन्मनाः ॥
अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् ।अत्तुं महेन्द्रियं भागमेति दुश्च्यवनोऽधुना ॥
आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम् । हविर्हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः ॥
युव-जानिर्धनुश्-पाणिर्भूमि-ष्ठः ख-विचारिणः । रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः ॥
मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः ।अश्नन्ति रामाद्रक्षांसि बिभ्यश्रुवते दिशः ॥
कुरु बुद्धिं कुशाऽग्रियामनुकामीन-तां त्यज । लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय ॥
सहाय-वन्त उद्युक्ता बहवो निपुणाश्च याम् । श्रियमाशासते लोलां तां हस्ते-कृत्य मा श्वसीः ॥
लक्ष्मीः पुं-योगमाशंसुः कुलटेव कुतूहलात् ।अन्तिकेऽपि स्थिता पत्युश्छलेनाऽन्यं निरीक्षते ॥
योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी । दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला ॥
नाऽऽस्यं पश्यति यस्तस्या निंस्ते दन्त-च्छदं न वा । संशृणोति न चोक्तानि मिथ्याऽऽसौ निहितेन्द्रियः ॥
सारोऽसाविन्द्रियाऽर्थानां यस्याऽसौ तस्य नन्दथुः । तल्पे कान्ताऽन्तरैः सार्धं मन्येऽहं धिङ्निमज्जथुम् ॥
न तं पश्यामि यस्याऽसौ भवेन्नोदेजया मतेः । त्रैलोक्येनाऽपि विन्दस्त्वं तां क्रीत्वा सुकृती भव ॥
नैवेन्द्राणी न रुद्राणी न मानवी न रोहिणी । वरुणानी न नाऽग्नायी तस्याः सीमन्तिनी समा।" ॥
प्रत्यूचे राक्षसेन्द्रस्ताम् "आश्वसिहि बिभेषि किम् । त्यज नक्तञ्चरि ! क्षोभं वाचाटे ! रावणो ह्यहम् ॥
मामुपास्त दिदृक्षा-वान्याष्टीक-व्याहतो हरिः ।आज्ञा-लाभोन्मुखो दूरात्काक्षेणाऽनादरेक्षितः ॥
विरुग्णो-दग्र-घाराऽग्नः कुलिशो मम वक्षसि ।अ-भिन्नं शत-धाऽऽत्मानं मन्यते बलिनं बली ॥
कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम् । बन्धनेऽनुपयोगि-त्वान्नतं तृण-वदत्यजम् ॥
आहोपुरुषिकां पश्य मम सद्-रत्न-कान्ति-भिः । ध्वस्ताऽन्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा ॥
हृत-रत्नश्च्युतोद्योगो रक्षोभ्यः कर-दो दिवि । पूतक्रतायीमभ्येति स-त्रपः किं न गोत्र-भित् ॥
अ-तुल्य-महसा सार्धं रामेण मम विग्रहः । त्रपा-करस्तथाप्येष यतिष्ये तद्-विनिग्रहे।" ॥
उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र-भृत् । समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे ॥