गते तस्मिन्जल-शुचिः शुद्ध-दन्रावणः शिखी । जञ्जपूकोऽक्ष-माला-वान्धारयो मृदलाबुनः ॥
कमण्डलु-कपालेन शिरसा च मृजा-वता । संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान् ॥
अधीयन्नात्म-विद्विद्यां धारयन्मस्करि-व्रतम् । वदन्बह्वङ्गुलि-स्फोटं भ्रू-क्षेपं च विलोकयन् ॥
संदिदर्शयिषुः साम निजुह्नूषुः क्षपाट-ताम् । चंक्रमा-वान्समागत्य सीतामूचे"सुखाभव।" ॥
सायं-तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम् । कान्तिं कान्त्या सदा-तन्या ह्रेपयन्ती शुचि-स्मिता ॥
का त्वमेकाकिनी भीरु ! निरन्वय-जने वने । क्षुध्यन्तोऽप्यघसन्व्यालास्त्वाम-पालां कथं न वा ॥
हृदयं-गम-मूर्तिस्त्वं सुभगं-भावुकं वनम् । कुर्वाणा भीममप्येतद्वदाऽभ्यैः केन हेतुना ॥
सुकृतं प्रिय-कारी त्वं कं हरस्युपतिष्ठसे । पुण्य-कृच्चाटु-कारस्ते किङ्करः सुरतेषु कः ॥
परि-पर्युदधे रूपमा-द्यु-लोकाच्च दुर्-लभम्। । भावत्कं दृष्टवत्स्वेतदस्मास्वधि सु-जीवितम् ॥
आपीत-मधुका भृङ्गैः सुदिवेवाऽरविन्दिनी । सत्-परिमल-लक्ष्मीका नाऽ-पुंस्काऽसीति मे मतिः ॥
मिथ्यैव श्रीः श्रियं-मन्या श्रीमन्-मन्यो मृषा हरिः । साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः ॥
नोदकण्ठिष्यताऽत्यर्थं त्वामैक्षिष्यत चेत्स्मरः । खेलायन्ननिशं नापि सजूः-कृत्य रतिं वसेत् ॥
वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का । कान्तिं नाऽभिमनायेत को वा स्थाणु-समोऽपि ते ॥
दुःखायते जनः सर्वाह्स एवैकः सुखायते । यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके ॥
कः। पण्डितायमानस्त्वा- मादायाऽऽमिष-सन्निभाम् । त्रस्यन्वैरायमाणेभ्यः शून्यमन्ववसद्वनम्।" ॥
ओजायमाना तस्याऽर्ध्यं प्रणीय जनकाऽऽत्मजा ।उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः ॥
"महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर्मम । पितुः प्रियं-करो भर्ता क्षेमं-कारस्तपस्विनाम् ॥
निहन्ता वैर-काराणां सतां बहु-करः सदा । पारश्वधिक-रामस्य शक्तेरन्त-करो रणे ॥
अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा । पितुर्नियोगाद्राज-त्वं हित्वा योऽभ्यागमद्वनम् ॥
पितत्रि-क्रोष्टु-जुष्टानि रक्षांसि भय-दे वने । यस्य बाण-निकृत्तानि श्रेणी-भूतानि शेरते ॥
दीव्यमानं शितान्बाणानस्यमानं महा-गदाः । निघ्नानं शात्रवान्रामं कथं त्वं नाऽवगच्छसि ॥
भ्रातरि न्यस्य यातो मां मृगाविन्मृगयामसौ ।एषितुं प्रेषितो यातो मया तस्याऽनु-जो वनम् ॥
अथाऽऽयस्यन्कषायाऽक्षः स्यन्न-स्वेद-कणोल्बणः । संदर्षिताऽऽन्तराकूतस्तामवादीद्दशाननः ॥
"कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् । को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम् ॥
राक्षसान्बटु-यज्ञेषु पिण्डी-शूरान्निरस्तवान् । यद्यसौ कूप-माण्डूकि ! तवैतावति कः स्मयः ॥
मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः । युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः ॥
निर्-लङ्को विमदः स्वामी धनानां हृत-पुष्पकः ।अध्यास्तेऽन्तर्-गिरं यस्मात्कस्तन्नाऽवैति कारणम् ॥
भिन्न-नौक इव ध्यायन्मत्-तो बिभ्यद्यमः स्वयम् । कृष्णि-मानं दधानेन मुखेनाऽऽस्ते निरुद्यतिः ॥
समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी । रत्न-पारायणं नाम्ना लङ्केति मम मैथिलि ! ॥
आवासे सिक्त-संमृष्टे गन्धैस्त्वं लिप्त-वासिता ।आर्पितोरु-सुगन्धि-स्रक्तस्यां वस मया सह ॥