ततो रामो हनूमन्तमुक्तवान्हृष्ट-मानसम् । "अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम् ॥
गाधितासे नभो भूयः स्फुटन्-मेघ-घटाऽऽवलि ।ईक्षितासेऽम्भसां पत्युः पयः शिशिर-शीकरम् ॥
सेवितासे प्लवङ्ग ! त्वं महेन्द्राऽद्रेरधित्यकाः । व्युत्क्रान्त-वर्त्मनो भानोः सह-ज्योत्स्ना-कुमुद्वतीः ॥
चन्दन-द्रुम-संच्छन्ना निराकृत-हिम-श्रथाः । दर्शितारस्त्वया ताश्च मलयोपत्यकाः शुभाः ॥
प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते । लताः स्तबक-शालिन्यो मधुलेहि-कुलाऽऽकुलाः ॥
द्रष्टासि प्रीति-मानारात्सखिभिः सह सेविताम् । स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन्मुहुः ॥
त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने ।उपद्रुतश्चिरं द्वन्द्वैर्ययोः क्लिशितवानहम् ॥
आप्तारौ भवता रम्यावाश्रमौ हरिणाऽऽकुलौ । पुण्योदक-द्विजाऽऽकीर्णौ सुतीक्ष्ण-शरभङ्गयोः ॥
अतिक्रान्ता त्वया रम्यं दुःखमत्रेस्तपो-वनम् । पवित्र-चित्रकूटेऽद्रौ त्वं स्थातासि कुतूहलात् ॥
ततः परं भरद्वाजो भवता दर्शिता मुनिः । द्रष्टारश्च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः ॥
स्यन्त्वा स्यन्त्वा दिवः शम्भोर्- मूर्ध्नि स्कन्त्वा भुवं गताम् । गाहितासेऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम् ॥
तमसाया महा-नील-पाषाण-सदृश-त्विषः । वनाऽन्तात्बहु मन्तासे नागराऽऽक्रीड-शाखिनः ॥
नगर-स्त्री-स्तन-न्यस्त-धौत-कुङ्कुम-पिञ्जराम् । विलोक्य सरयूं रम्यां गन्ताऽयोध्या त्वया पुरी ॥
आनन्दितारस्त्वां दृष्ट्वा प्रष्टारश्चावयोः शिवम् । मातरः सह मैथिल्या तोष्टा च भरतः परम् ॥
आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम् । सुग्रीवं चाऽर्जितं मित्रं सर्वांश्चाऽऽगामुकान्द्रुतम् ॥
गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस्तव । ज्ञात्वैतत्सम्मुखीनश्च समेता भरतो ध्रुवम् ॥
गते त्वयि पथाऽनेन वयमप्यंहितास्महे । लब्धाहेऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे ॥
गते तस्मिन्गृहीताऽर्थे रामः सुग्रीव-राक्षसौ ।उक्तवान्श्वोऽभिगन्तास्थो युवां सह मया पुरम् ॥
द्रष्टास्थस्तत्र तिस्रो मे मात्स्तुष्टऽन्तराऽऽत्मनः ।आन्त्यन्तीनं सखि-त्वं च प्राप्तास्थो भरताऽऽश्रयम् ॥
नैवं विरह-दुःखेन वयं व्याघानितास्महे । श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः ॥
एवं युवां मम प्रीत्यै कल्प्तास्थः कपि-राक्षसौ ! । गन्तुं प्रयतितासाथे प्रातः सह मया यदि ॥
उत्कवन्तौ ततो रामं वचः पौलस्त्य-वानरौ ।अनुग्रहोऽयं काकुत्स्थ ! गन्तास्वो यत्त्वया सह ॥
अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया ।अपि प्राप्य सुरेन्द्र-त्वं किं नु प्रत्तं त्वयाऽऽस्पदम् ॥
ततः कथाभिः समतीत्य दोषा- मारुह्य सैन्यैः सह पुष्पकं ते । सम्प्रस्थिता वेग-वशाद-गाधं प्रक्षोभयन्तः सलिलं पयोधेः ॥
सेतुं महेन्द्रं मलयं स-विन्ध्यं स-माल्यवन्तं गिरिमृष्यमूकम् । स-दण्डकाऽरण्य-वातीं च पम्पां रामः प्रियायाः कथयन्जगाम ॥
एते ते मुनि-जन-मण्डिता दिगन्ताः शैलोऽयं लुलित-वनः स चित्रकूटः । गङ्गेयं सु-तनु-! विशाल-तीर-रम्या मैथिल्या रघु-तनयो दिशन्ननन्द ॥
शिञ्जान-भ्रमर-कुलाऽऽकुलाऽग्र-पुष्पाः शीता-ऽम्भः-प्रविलय-संप्लवाऽभिलीनाः ।एते ते सु-तनु ! पुरी-जनोपभोग्या दृश्यन्ते नयन-मनोरमा वनाऽन्ताः ॥
स्थानं नः पूर्व-जानामियमधिकमसौ प्रेयसी पूरयोध्या दूरादालोक्यते या हुत-विविध-हविः- प्रीणिताऽशेष-देवा । सोऽयं देशो रुदन्तं पुर-जनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वनाऽन्तं सह धृत-धृतिना लक्ष्मणेन क्षपाऽन्ते ॥
तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन्विक्रान्तैः करिणां गिरीन्द्र-सदृशां क्ष्मां कम्पयन्सर्वतः । साऽऽनन्दाऽश्रु-विलोचनः प्रकृतिभिः सार्धं सहाऽन्तः पुरः सम्प्राप्तो भरतः स-मारुतिरलं नम्रः समं मातृभिः ॥
अथ स-सम्भ्रम-पौर-जनाऽऽवृतो भरत-पाणि-धृतोज्ज्वल-चामरः । गुरु-जन-द्विज-बन्द्यभिनन्दितः प्रविशति स्म पुरं रघु-नन्दनः ॥
प्रविधाय धृतिं परां जनानां युव-राजं भरतं ततोऽभिषिच्य । जघटे तुरगाऽध्वरेण यष्टुं कृत-सम्भार-विधिः पतिः प्रजानाम् ॥
इदमधिगत-मुक्ति-मार्ग-चित्रं विवदिषतां वदतां च सन्-निबन्धात् । जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथाऽस्त्रम् ॥
दीप-तुल्यः प्रबन्धोऽयं शब्द-लक्षण-चक्षुषाम् । हस्ताऽमर्ष इवाऽन्धानां भवेद्व्याकरणादृते ॥
व्याख्या-गम्यमिदं काव्य- मुत्सवः सु-धियामलम् । हता दुर्-मेघसश्चाऽस्मिन्विद्वत्-प्रिय-तया मया ॥
काव्यमिदं विहितं मया वलभ्यां श्रीधरसेन-नेरन्द्र-पालितायाम् । कीर्तिरतो भवतान्नृपस्य तस्य प्रेम-करः क्षिति-पो यतः प्रजानाम् ॥