अध्यायच्छक्रजिद्ब्रह्म समाधेरचलन्न च। । तमाह्वयत सौमित्रिरगर्जच्च भयंकरम् ॥
अकुप्यदिन्द्रजित्तत्र पितृव्यं चाऽगदद्वचः । "त्वमत्राऽजायथा देह इहाऽपुष्यत्सुराऽमिषैः ॥
इहाऽजीव इहैव त्वं क्रूरमारभथाः कथम् । नाऽपश्यः पाणिमार्द्रं त्वं बन्धु-त्वं नाऽप्यपैक्षथाः ॥
अ-धर्मान्नाऽत्रसः पाप ! लोक-वादान्न चाऽबिभेः । धर्म-दुषण ! नूनं त्वं नाऽजाना नाऽशृणोरिदम् ॥
निराकृत्य यथा बन्धून्लघु-त्वं यात्य-संशयम्।" । पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित् ॥
"मिथ्या मा स्म व्यतिक्रामो मच्छीलं मा न बध्यथाह् । सत्यं समभवं वंशे पापानां रक्षसामहम् ॥
न त्वजायत मे शीलं तादृक्यादृक्पितुस्तव। । क्षयाऽऽवहेषु दोषेषु वार्यमाणो मयाऽरमत् ॥
दश-ग्रीवंऽहमेतस्मादत्यजं न तु विद्विषन्। । पर-स्वान्यार्जयन्नारीरन्यदीयाः परामृशत् ॥
व्यजिघृक्षत्सुरान्नित्यं प्रामाद्यद्गुणिनां हिते ।आशङ्कत सुहृद्-बन्धून-वृद्धान्बह्वमन्यत ॥
दोषैररमतैभिस्ते पिताऽत्यज्यत यैर्मया। । ततो-रुष्यदनर्दच्च द्वि-विंशतिभिरेव च ॥
शरैरताडयद्बन्धुं पञ्च-विंशतिभिर्नृपम् । रावणिस्तस्य सौमित्रिरमथ्नाच्चतुरो हयान् ॥
सागरथिं चाऽलुनाद्बाणैरभनक्स्यन्दनं तथा । सौमित्रिमकिरद्बाणैः परितो रावणिस्ततः ॥
तावस्फावयतां शाक्तिं बाणांश्चाऽकिरतां मुहुः। । वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्रजित् ॥
ते परस्परमासाद्य शस्त्रे नाशमगच्छताम् ।आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत् ॥
तस्मान्निरपतद्भूरि शिला-शूलेष्टि-मुद्गरम्। । माहेश्वरेण सौमित्रिरस्तभ्नात्तत्सुदुर्जयम् ॥
ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत् । तेनाऽऽगम्यत घोरेण शिरश्चाऽह्रियत द्विषः ॥
अतुष्यन्नमराः सर्वे प्राहृष्यन्कपि-यूथपाः । पर्यष्वजत सौमित्रिं मूर्ध्न्यजिघ्रच्च राघवः ॥
अरोदीद्राक्षसाऽनीकमरोदन्नृ-भुजां पतिः । मैथिल्यै चाऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः ॥
"अ-युक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन् । न्यरुन्धंश्चाऽस्य पन्थानं बन्धुता शुचमारुणत् ॥
आस्फायताऽस्य वीरत्वममर्षश्चाऽप्यतायत । रावणस्य ततः सैन्यं समस्तमयुयुत्सयत् ॥
अग्नीनवरिवस्यंश्च तेऽनमस्यंश्च शङ्करम् । द्विजानप्रीणयन्शान्त्यै यातुधाना भवद्-भियः ॥
परितः पर्यवाद्वायुराज्य-गन्धिर्मनो-रमः ।अश्रूयत स पुण्याहः स्वस्ति-घोषः समुच्चरन् ॥
योद्धारोऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः । रत्नानि चाऽददुर्गाश्च समवाञ्छन्नथाऽऽशिषः ॥
अदिहंश्चन्दनैः शुभ्रैर्विचित्रं समवस्त्रयन् ।अधारयन्स्रजः कान्ता वर्म चाऽन्येऽदधुर्द्रुतम् ॥
समक्ष्णुवत शस्त्राणि प्रामृजन्खड्ग-संहतीः । गजाऽऽदीनि समारोहन्प्रातिष्ठन्ताऽऽथ सत्वराः ॥
अपूरयन्नभः शब्दो बल-संवर्त-संभवः ।अपूर्यन्त च दिग्-भागास्तुमुलैस्तूर्य-निस्वनैः ॥
आसीद्द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम् । समहान-निमित्तैश्च समभूयत भीषणैः ॥
कपयोऽबिभयुस्तस्मिन्नभञ्जंश्च महा-द्रुमान् । प्रोदखायन्गिरींस्तूर्णमगृह्णंश्च महा-शिलाः ॥
ततः समभवद्युद्धं प्राहरन्कपि-राक्षसाः ।अन्योन्येनाऽभ्यभूयन्त विमर्दमसहन्त च ॥
प्रावर्धत रजो भौमं तद्व्याश्नुत दिशो दश । पराऽऽत्मीय-विवेकं च प्रामुष्णात्कपि-रक्षसाम् ॥