व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः । विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम् ॥
"भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः । नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥
विपाकोऽयं दश-ग्रीव ! संदृष्टोऽनागतो मया। । त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि ॥
भजन्ति विपदस्तूर्णमतिक्रामन्ति सम्पदः । तान्मदान्नाऽवतिष्ठन्ते ये मते न्यायवादिनाम् ॥
अ-पथ्यमायतौ लोभादामनन्त्यनुजीविनः । प्रियं शृणोति यस्तेभ्यस्तमृच्छन्ति न सम्पदः ॥
प्राज्ञास्तेजस्विनः सम्यक्पश्यन्ति च वदन्ति च । तेऽवज्ञाता महाराज ! क्लाम्यन्ति विरमन्ति च ॥
लेढि भेषज-वन्नित्यं यः पथ्यानि कटून्यपि । तदर्थं सेवते चाऽऽप्तान्कदाचिन्न स सीदति ॥
सर्वस्य जायते मानः स्व-हिताच्च प्रमाद्यति । वृद्धौ भजति चाऽपथ्यं नरो येन विनश्यति ॥
द्वेष्टि प्रायो गुणेभ्यो यन्न च स्निह्यति कस्यचित् । वैरायते महद्भिश्च शीयते वृद्धिमानपि ॥
समाश्वसिमि केनाऽहं कथं प्राणिमि दुर्-गतः । लोक-त्रय-पतिर्भ्राता यस्य मे स्वपिति क्षितौ ॥
अहो जागर्ति कृच्छ्रेषु दैवं यद्बल-भिज्जितः । लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च ॥
शिवाः कुष्णन्ति मांसानि भूमिः पिबति शोणितम् । दशग्रीव-सनाभीनां समदन्त्यामिषं खगाः ॥
येन पूत-क्रतोर्मूर्ध्नि स्थीयते स्म महाऽऽहवे । तस्याऽपीन्द्रजितो दैवाद्ध्वांक्षैः शिरसि लीयते ॥
स्वर्भानुर्भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः ।अभ्युपैति पुनर्भूतिं राम-ग्रस्तो न कश्चन ॥
त्वमजानन्निदं राजन्नीडिषे स्म स्व-विक्रमम् । दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ॥
मन्त्रे जातु वदन्त्यज्ञास्त्वं तानप्यनुमन्यसे । कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः ॥
अ-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम् । "न करोमीतिपौलस्त्य ! तदा मोहात्त्वमुक्तवान् ॥
त्वं स्म वेत्थ महाराज ! यत्स्माऽऽह न विभीषनः। । पुरा त्यजति यत्क्रुद्दो मां निराकृत्य संसदि ॥
हविर्जक्षिति निःशङ्को मखेषु मधवानसौ । प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः ॥
धनानामीशते यक्षा यमो दाम्यति राक्षसान् । तनोति वरुणः पाशमिन्दुनोदीयतेऽधुना ॥
शाम्यत्यृतु-समाहारस्तपस्यन्ति वनौकसः । नो नमस्यन्ति ते बन्धून्वरिवस्यन्ति नाऽमराः ॥
श्रीर्निष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः । न वेद तन्न यस्याऽस्ति मृते त्वयि विपर्ययः ॥
शक्तिं संस्वजते शक्रो गोपायति हरिः श्रियम् । देव-वन्द्यः प्रमोदन्ते चित्रीयन्ते घनोदयाः ॥
बिभ्रत्यस्त्राणि साऽमर्षा रण-काम्यन्ति चाऽमराः । चकासति च मांसाऽदां तथारन्ध्रेषु जाग्रति ॥
चञ्चूर्यतेऽभितो लङ्कामस्मांश्चाऽप्यतिशेरते । भूमयन्ति स्व-सामर्थ्यं कीर्तिं नः कनयन्ति च ॥
दिशो व्यष्नुवते दृप्तास्त्वत्-कृतां जहति स्थितिम् । क्षोदयन्ति च नः क्षुद्रा हसन्ति त्वां विपद्-गतम् ॥
शमं शमं नभस्वन्तः पुनन्ति परितो जगत् ।उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः ॥
प्रोर्णोति शोकस्चित्तं मे सत्वं संशाम्यतीव मे । प्रमार्ष्टि दुःखमालोकं मुञ्चाम्यूर्जं त्वया विना ॥
केन संविद्रते-नाऽन्यस्त्वत्तो बान्धव-वत्सलः । विरौमि शून्ये प्रोर्णौमि कथं मन्यु-समुद्भवम् ॥
रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वया । प्रमाणं नोपकाराणामवगच्छामि यस्य ते ॥