ततोऽद्विषुर्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः। ।अद्विषन्वानराश्चैव वानरेभ्योऽपि निर्दयाः ॥
अघुरंस्ते महा-घोरमश्च्योतन्नथ शोणितम् । समपद्यत रक्तेन समन्तात्तेन कर्दमः ॥
गम्भीराः प्रावहन्नद्यः समजायन्त च ह्रदाः । वृद्धं च तद्रजोऽशाम्यत्समवेद्यन्त च द्विषः ॥
ततोऽचित्रीयताऽस्त्रौघैर्धनुश्चाऽधूनयन्महत् । रामः समीहितं तस्य नाऽचेतन्स्वे न चाऽपरे ॥
छिन्नानैक्षन्त भिन्नांश्च समन्ताद्राम-सायुकैः। । क्रुष्टं हाहेति चाऽशृण्वन्न च रामं न्यरूपयन् ॥
अभिनच्छत्रु-संघातानक्षुणद्वाजि-कुञ्जरम् ।अपिनट्च रथाऽनीकं न चाऽज्ञायत संचरन् ॥
दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम् । चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम् ॥
लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता ।अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम् ॥
यम-लोकमिवाऽग्रथ्नाद्रुद्राऽऽक्रीडमिवाऽकरोत् । शैलैरिवाऽचिनोद्भूमिं बृहद्भी राक्षसैर्हतैः ॥
अस्तुवन्देव-गन्धर्वा व्यस्मयन्त प्लवङ्गमाः । कपीन्द्रेऽतन्यत प्रीतिः पौलस्त्योऽमन्यताऽद्भुतम् ॥
राक्षस्यः प्रारुदन्नुच्चैः प्राजुगुप्सन्त रावणम्। ।अमुह्यद्बाल-वृद्धं च समरौदितरो जनः ॥
सर्वतश्चाऽभयं प्राप्नोन्नैच्छन्नृभ्यस्तु रावणः । फलं तस्येदमभ्यायाद्दुरुक्तस्येति चाऽब्रुवन् ॥
ततोऽधावन्महा-घोरं रथमास्थाय रावणः ।अक्ष्मायत मही गृध्राः समारार्यन्त भीषणाः ॥
मेघाः स-विद्युतोऽवर्षंश्चेल-क्नोपं च शोणितम् ।अवान्भीमा नभस्वन्तः प्रारुवन्न-शिवाः शिवाः ॥
आटाट्यताऽवमत्याऽसौ दुर्निमित्तानि संयुगे ।अधुनोद्धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः ॥
व्यनाशयंस्ततः शत्रून्सुग्रीवाऽस्ता महीभृतः । ततो व्यरसदग्लायदध्य्शेत मही-तलम् ॥
आश्च्योतद्रुधिरं तोयमलसच्चाऽति विह्वलम् ।अशीयत नृ-मांसाऽदां बलं सुग्रीव-बाधितम् ॥
विरूपाक्षस्ततो क्रीडत्संग्रामे मत्त-हस्तिना । मुष्टिनाऽदालयत्तस्य मूर्धानं वानराऽधिपः ॥
अचूर्णयच्च यूपाक्षं शिलया तदनन्तरम्। । संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम् ॥
ततोऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान्वनौकसाम् ।अगोपायच्च रक्षांसि दिशश्चाऽरीनभाजयत् ॥
आलोकयत्स काकुत्स्थमधृष्णोद्घोरमध्वनत् । धनुरभ्रमयद्भीममभीषयत विद्विषः ॥
आस्कन्दल्लक्ष्मणं बानैरत्यक्रामच्च तं द्रुतम् । राममभ्यद्रवज्जिष्णुरस्कुनाच्चेषु-वृष्टिभिः ॥
अपौहद्बाण-वर्षं तद्भल्लै रामो निराकुलः । प्रत्यस्कुनोद्दष-ग्रीवं शरैराशी-विषोपमैः ॥
मण्डलान्याटतां चित्रमच्छित्तां शस्त्र-संहतीः । जगद्विस्मापयेतां तौ न च वीरावसीदताम् ॥
व्योम प्राचिनुतां बाणैः क्ष्मामक्ष्मापयतां गतैः ।अभित्तां तूर्णमन्योन्यं शिक्षाश्चाऽतनुतां मुहुः ॥
समाधत्ताऽऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः । तदक्षरन्महासर्पान्व्याघ्र-सिंहांश्च भीषणान् ॥
न्यषेधत्पावकाऽस्त्रेण रामस्तद्राक्षसस्ततः ।अदीव्यद्रौद्रमत्युग्रं मुसलाऽऽद्यगलत्ततः ॥
गान्धर्वेण न्यविद्यत्तत्क्षितीन्द्रोऽथ नराऽशनः । सर्व-मर्मसु काकुत्स्थ- मौम्भत्तीक्ष्णैः शिलीमुखैः ॥
ततस्त्रिशिरसं तस्य प्रावृश्चल्लक्ष्मणो ध्वजम् ।अमथ्नात्सारथिं चाऽऽशु भूरिभिश्चाऽतुदच्छरैः ॥
अश्वान्विभीषनोऽतुभ्नात्स्यन्दनं चाऽक्षिणोद्द्रुतम् । नाऽक्षुभ्नाद्राक्षसो भ्रातुः शक्तिं चोदवृहद्गुरुम् ॥