तामापतन्तीं सौमित्रिस्त्रिधाऽकृन्तच्छिलीमुखैः ।अशब्दायन्त पश्यन्तस्ततः क्रुद्धो निशाचरः ॥
अष्ट-घण्टां महा-शक्तिमुदयच्छन्महत्तराम् । रामाऽनुजं तयाऽविध्यत्स महीं व्यसुराश्रयत् ॥
राघवस्याऽभृशायन्त सायकास्तैरुपद्रुतः । ततस्तूर्णं दशग्रीवो रण-क्ष्मा पर्यशेषयत् ॥
स-स्फुरस्योदकर्षच्च सौमित्रेः शक्तिमग्र-जः ।असिञ्चदोषधीस्ता याः समानीता हनूमता ॥
उदजीवत्सुमित्रा-भूर्भ्राताऽऽश्लिष्यत तमायतम् । सन्यङ्मूर्धन्युपाशिङ्घ- दपृच्छच्च निरामयम् ॥
ततः प्रोदसहन्सर्वे योद्धुमभ्यद्रवत्परान् ।अकृच्छ्रायत च प्राप्तो रथेनाऽन्येनऽरावणः ॥
"भूमि-ष्ठस्याऽसमं युद्धं रथ-स्थेने"ति मातलिः ।आहरद्रथमत्युग्रं स-शस्त्रं मघवाऽऽज्ञया ॥
सोऽध्यष्ठीयत रामेण शस्त्रं पाशुपतं ततः । निरास्यत दशाऽऽस्यस्तच्छक्राऽस्त्रेणाजयन्नृपः ॥
ततः शत-महस्रेण रामः प्रौर्णोन्निशाचरम् । बाणानामक्षिणोद्धुर्यान्सारथिं चाऽदुनोद्द्रुतम् ॥
अदृश्यन्ताऽनिमित्तानि प्राह्वलत्क्षिति-मण्डलम् । रावणः प्राहिणोच्छूलं शक्तिं चैन्दीं मही-पतिः ॥
ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः । लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥
अस्तृणादधिकं रामस्ततोऽदेवत सायकैः ।अक्लाम्यद्रावणस्तस्य सूतो रथमनाशयत् ॥
राक्षसोऽतर्जयत्सूतं पुनश्चाऽढौकयद्रथम् । निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम् ॥
उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ ।अदीप्येतामुभौ धृष्णू प्रायुञ्जातां च नैपुणम् ॥
उभौ मायां व्यतायेतां वीरौ नाऽश्राम्यतामुभौ । मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ ॥
न चोभावप्यलक्ष्येतां यन्तारावाहतामुभौ । स्यन्दनौ समपृच्येतामुभयोर्दीप्त-वाजिनौ ॥
ततो मायामयान्मूर्ध्नो राक्षसोऽप्रथयद्रणे । रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः ॥
समक्षुभ्नन्नुदन्वन्तः प्राकम्पन्त महीभृतः । सन्त्रासमबिभः शक्रुः प्रैंखच्च क्षुभिता क्षितिः ॥
ततो मातलिना शस्त्रमस्मर्यत महीपतेः । वधाय रावणस्योग्रं स्वयम्भूर्यदकल्पयत् ॥
नभस्वान्यस्य वाजेषु फले तिग्मांशु-पावकौ । गुरुत्वं मेरु-सङ्काशं देहः सूक्ष्मो वियन्मयः ॥
राजितं गारुडैः पक्षैर्विश्वेषां घाम तेजसाम् । स्मृतं तद्रावणं भित्त्वा सुघोरं भुव्यशाययत् ॥
आबध्नन्कपि-वदनानि संप्रसादं प्राशंसत्सुर-समितिर्नृपं जिताऽरिम् ।अन्येषां विगत-परिप्लवा दिगन्ताः पौलस्त्योऽजुषत शुचं विपन्न-बन्धुः ॥