अविवेष्टन्नृपाऽऽदेशादारुक्षंश्चाऽऽशु राक्षसम् । तानधावीत्समारूढांस्तेऽप्युस्रंसिषताऽऽकुलाः ॥
अग्रसिष्ट व्यधाविष्ट समाश्लिक्षच्च निर्-दयम्। । ते चाऽप्यघोरिषुर्घोरं रक्तं चाऽवमिषुर्मुखैः ॥
स चाऽपि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न ।अग्रहीच्चाऽऽयुरन्येषामरुद्ध च पराक्रमम् ॥
संत्रस्तानांअपाहारि सत्त्वं च वन-वासिनाम् ।अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा ॥
अभेदि च शरैर्देहः प्राशंसीत्तं निशा-चरः। ।अस्पर्धिष्ट च रामेण तेनाऽस्याऽक्षिप्सतेषवः ॥
यैरघानि खरो वाली मारीचो दूषणस्तथा। ।अवामंस्त स तान्दर्पात्प्रोदयंसीच्च मुद्गरम् ॥
वायव्याऽस्त्रेण तं पाणिं रामोऽच्छैत्सीत्सहाऽऽयुधम् ।आदीपि तरु-हस्तोऽसा- वधावीच्चाऽरि-संमुखम् ॥
स-वृक्षमच्छिदत्तस्य शक्राऽस्त्रेण करं नृपः । जङ्घे चाऽशीशतद्बाणैरप्रासीदिषुभिर्मुखम् ॥
ऐन्द्रेण हृदयेऽव्यात्सीत्सोऽध्यवात्सीच्च गां हतः। ।अपिक्षातां सहस्रे द्वे तद्-देहेन वनौकसाम् ॥
अस्ताविषुः सुरा रामं दिशः प्रापन्निशा-चराः । भूरकम्पिष्ट साऽद्रीन्द्रा व्यचालीदम्भसां पतिः ॥
हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन् ।अरोदीद्रावणोऽशोचीन्मोहं चाऽशिश्रियत्परम् ॥
अपप्रथद्गुणान्भ्रातुरचिकीर्तच्च विक्रमम् । "क्रुद्धेन कुम्भकर्णेन येऽदिर्षिशत शत्रवः ॥
कथं न्वजीविषुस्ते च स चाऽमृत महा-बलः।" ।अयुयुत्सिषताऽऽश्वास्य कुमारा रावणं ततः ॥
देवान्तकोऽतिकायश्च त्रिशिराः स नरान्तकः । ते चांऽऽहिषत संग्रामं बलिनो रावणाऽऽत्मजाः ॥
युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत् । सुतानां निरगातां तौ राक्षसौ रण-पण्डितौ ॥
तैरजेषत सैन्यानि द्विषोऽकारिषताऽऽकुलाः । पर्वतानिव ते भूमावचैषुर्वानरोत्तमान् ॥
अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः । प्रैषिषद्राक्षसः प्रासं सोऽस्फोटीदङ्गदोरसि ॥
अश्वान्वालि-सुतोऽहिंसीदतताडच्च मुष्टिना। । रावणिश्चाऽव्यथो योद्धुमारब्ध च महीं गतः ॥
तस्याऽहारिषत प्राणा मुष्टिना वालि-सूनुना। । प्रादुद्रुवंस्ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम् ॥
ततो नील-हनूमन्तौ रावणीनववेष्टताम् ।अकारिष्टां गिरींस्तुङ्गानरौत्सीत्त्रिशिराः शरैः ॥
परिघेणाऽवधिष्टाऽथ रणे देवान्तको बली । मुष्टिनाऽददरत्तस्य मूर्धानं मारुताऽऽत्मजः ॥
अदीदिपत्ततो वीर्यं नीलं चाऽपीपिडच्छरैः । युद्धोन्मत्तस्तु नीलेन गिरिणाऽनायि संक्षयम् ॥
अबभ्राजत्ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे । हनूमता क्षतास्तस्य रणेऽमृषत वाजिनः ॥
अस्रसच्चाऽऽहतो मूर्ध्नि खड्गं चाऽजीहरद्द्विषा । प्राणानौज्झीच्च खड्गेन छिन्नैस्तेनैव मूर्धभिः ॥
मत्तेनाऽमारि संप्राप्य शरभाऽस्तां महा-गदाम् । सहस्र-हरिणाऽक्रीडीदतिकायस्ततो रणे ॥
रथेनाऽविव्यथच्चाऽरीन्व्यचारीच्च नि-रङ्कुशः । विभीषणेन सोऽख्यायि राघवस्य महा-रथः ॥
"अतस्तम्भदयं वज्रं स्वयम्भुवमतूतुषत् ।अशिक्षिष्ट महाऽस्त्राणि रणेऽरक्षीच्च राक्षसान् ॥
अद्यगीष्टाऽर्थ-शास्त्राणि यमस्याऽह्नोष्ट विक्रमम् । देवाऽऽहवेष्वदीपिष्ट नाऽजनिष्टाऽस्य साध्वसम् ॥
एष रावणिरापादि वानराणां भयङ्करः" ।आह्वताऽथ स काकुत्स्थं धनुश्चाऽपुस्फुरद्गुरु ॥
सौमित्रिः सर्प-वत्सिंहमार्दिदत्तं महाऽऽहवे। । तौ प्रावीवृततां जेतुं शर-जालान्यनेकशः ॥