Skip to main content
Search
SV
Śiśupālavadham • Chapter 07

Canto 7

सप्तमः सर्गः (वनविहारवर्णनम्)

Canto 7 of Śiśupālavadham.

Total: 75 Verses • Citations: SV 7.1–75 • 1 Lexicon Terms • Page 3 of 3 (Verses 15 shown)
अवचितकुसुमा विहाय वल्लीर्युवतीषु कोमलमाल्यमालिनीषु । पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥
श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः । मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥
अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः । परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥
SV 7.64 आर्यागीति (१२, २०, १२, २०)
अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन । सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥
SV 7.65 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः । भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥
SV 7.66 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण । अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥
SV 7.69 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु । कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासाम् ॥
SV 7.70 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे । परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥
अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥
SV 7.72 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥
SV 7.73 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः । उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥
SV 7.75 मालिनी
प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →