अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया । ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥
विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि । गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥
स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥
स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः । निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका । बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ॥
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिंअङ्गनाः ॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया । अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥
इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः । स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥
सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे । अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी । प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥
वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥
अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः । सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥
रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते । तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥
त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः । प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥
न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः । प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥
अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः । विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः । उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥
निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः । सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् । धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी । नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती । सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥
प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः । नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥