Skip to main content
Search
SV
Śiśupālavadham • Chapter 06

Canto 6

षष्ठः सर्गः (ऋतुवर्णनम्)

Canto 6 of Śiśupālavadham.

Total: 79 Verses • Citations: SV 6.1–79 • 1 Lexicon Terms • Page 3 of 3 (Verses 19 shown)
SV 6.61 द्रुतविलम्बितम्
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ । प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥
SV 6.62 गीति (१२, १८, १२, १८)
कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः । उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥
SV 6.63 आर्यागीति (१२, २०, १२, २०)
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरोऽभवत् ॥
अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥
SV 6.65 द्रुतविलम्बितम्
शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः ॥
SV 6.66 द्रुतविलम्बितम्
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥
SV 6.67 प्रमुदितवदना
अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः । तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥
SV 6.68 आर्यागीति (१२, २०, १२, २०)
नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां । चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥
SV 6.69 उपजातिः
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः । इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥
स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥
SV 6.71 तोटकम्
वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा । रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे । अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥
SV 6.73 कलहंस
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि । गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥
SV 6.74 उपजातिः
अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे । योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥
SV 6.75 औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन । परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥
SV 6.76 मत्तमयूरम्
जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन । तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥
SV 6.77 वसन्ततिलका
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन । प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥
SV 6.78 द्रुतविलम्बितम्
गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया । मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥
SV 6.79 वसन्ततिलका
कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः । श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →