आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः । अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ॥
यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि । संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ॥
नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः । पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥
एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वम् । सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ॥
स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः । सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ॥
संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः । कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥
गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः । बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ॥
श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः । पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥
मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनाम् । स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥
आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् । आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥
आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण । आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥
आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि । अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ॥
मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः । प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥
उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो । नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥
नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः । व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥
आस्कन्दन्कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः । औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ॥
ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः । कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ॥
संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ॥
आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः । धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥
नेच्छन्ती सममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः । आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥
तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि । अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥
आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः । उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ॥
कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥
त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥
आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सरोमहार्णवस्य । अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ॥
गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः । अम्भोधिविकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥
आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः । कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान्सरसि रराज केशहस्तः ॥
उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव । युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥
किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ॥
शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गिवासः । मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ॥