Skip to main content
Search
SV
Śiśupālavadham • Chapter 07

Canto 7

सप्तमः सर्गः (वनविहारवर्णनम्)

Canto 7 of Śiśupālavadham.

Total: 75 Verses • Citations: SV 7.1–75 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
SV 7.31 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन । सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥
प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ॥
SV 7.33 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनरोमराजिः । कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥
प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा । अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥
व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजम् । अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥
SV 7.36 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती । शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥
कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥
SV 7.38 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥
SV 7.39 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः । नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥
SV 7.40 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव । अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥
SV 7.41 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् । मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥
SV 7.42 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः । ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥
SV 7.43 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला । अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानाम् ॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥
SV 7.45 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः । यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥
SV 7.46 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः । रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥
SV 7.47 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या । सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥
SV 7.48 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥
SV 7.49 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥
SV 7.50 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या । अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या । अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ॥
SV 7.52 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥
SV 7.53 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां । व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥
SV 7.54 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥
मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥
SV 7.56 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥
SV 7.57 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥
SV 7.58 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् । वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥
समदनमवतंसितेऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः । व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥
अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव । श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →