Skip to main content
Search
SV
Śiśupālavadham • Chapter 07

Canto 7

सप्तमः सर्गः (वनविहारवर्णनम्)

Canto 7 of Śiśupālavadham.

Total: 75 Verses • Citations: SV 7.1–75 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥
SV 7.2 आर्यागीति (१२, २०, १२, २०)
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः । मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥
अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः । अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ॥
SV 7.4 आर्यागीति (१२, २०, १२, २०)
नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥
SV 7.5 आर्यागीति (१२, २०, १२, २०)
अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः । अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥
SV 7.6 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य । चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥
तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण । वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥
सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया । त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥
SV 7.10 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः । प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥
प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी । चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ॥
SV 7.12 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीम् । नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥
SV 7.13 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य । तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥
SV 7.14 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् । द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥
SV 7.15 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः । घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥
SV 7.16 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन । हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥
SV 7.17 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन । विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा । इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥
SV 7.19 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या । सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥
जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि । दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥
SV 7.21 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये । निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः । उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥
SV 7.23 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः । सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥
SV 7.24 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः । विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥
मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥
असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् । मरुदवनिरुहां रजो वधूभ्यः मुपहरन्विचकार कोरकाणि ॥
SV 7.27 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य । परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ॥
SV 7.28 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः । जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् ॥
SV 7.29 पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः । तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः । तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →